________________
३५४
.
वीरस्तुतिः ।
मता। तथा वन्धत्रयं प्रोक्तं, योगसाधनकर्मणि ॥ २२९ ॥ खेचरीति महामुद्रा महावन्धकरी तथा। वज्रमुद्रेति विनश्च, मुद्रीः प्रोक्ताः संसाधकैः ॥ २३० । ताश्च मुद्रा महायोगी, गुरुदेवप्रसादत. । ज्ञातुं शक्नोति योगात्तो, नान्यथा सिध्यति स्फुटम् ॥ २३१ ॥ प्राणायामविचारोऽपि, वर्ण्यतेऽनुभवान्मुदा । वस्तूनीमानि योगेऽस्मिन् , ज्ञातव्यानि विशेषतः ॥ २३२ ॥ अतो महात्मनामन्ते, स्थित्वं शिक्षादिका. क्रियाः। ससारे योगतो नान्य , पंथा मोक्षाय विद्यते ॥ २३३ । यो योगं कुरुते नित्यं, स याति परमास्पदम् । निर्भयं कर्मबन्धा मुच्यते नात्र संशयः ॥ २३४ । इत्युपदेशानुसारेण, ज्ञातव्यं मोक्षकाक्षिभिः ' अत्रानेके जनाः काले, वहूपायकरा भवे ॥ ३३५ ॥, दृश्यन्ते च. तथाऽन्तेऽपि कथं तेषां सुखोदय । सुपुण्यरूपं तैरुतं, बीजं पूर्व, ततश्च ह ॥ २३६ ॥ सुखा. त्मकं फलं शश्व_जन्ते तेन ज्ञायताम् । परन्त्वद्य च जीवेभ्यो, दत्वा दुःखं निर न्तरम् ॥ २३७ ॥ वपन्ति दुखवीजं ते, भविष्यन्ति सुखेतरा । फलं दुःख. मयं तेषामन्ते स्यान्नात्र संशयः ॥ २३८ ॥ इत्थं यश्च सुखी भूत्वा, पापिष्ठोऽपि भवे भवात् । पापानुवन्धिपुण्यात्मा, ज्ञायतां जगतीतले ॥ २३९ ॥ तदत्र वर्तते हेतुः, पूर्वपुण्यप्रसङ्गतः । जायन्ते सुखिनः पश्चाद्दुःखिनोऽपि भवन्त्यदः ॥ २४० ॥ वर्तमाने पापयोगात्पापिनोऽपि ततः परम् । दृश्यन्ते सुखिनोऽप्येवं, ज्ञातव्यं तत्व. निश्चयैः ।। २४१ ॥ धर्मात्मानो जना. केचित्सन्ति लोके सुखार्थिन.। कियन्तो दुखभोकारः, पापपुञ्जप्रभावतः ॥ २४२ ॥ कियन्तश्च सुखाकाराः, पुण्योदयप्रभावतः। एवं दुःखसमाप्तौ च, सुखोदकः प्रजायते ॥ सुखभोगसमाप्तौ तु, दु:खोदर्क प्रपद्यते ॥ २४३ ॥ अतस्ते सुखिनश्चाने, भविष्यन्ति नरास्ततः । ईदृशान्मनुजान शास्त्रे, पुण्यानुवन्धिपापिनः ॥ २४४ ॥ कथयन्ति जगत्यस्मिन्पूर्वपापप्रभावत । मुंजन्ति तेऽद्य पापौघं, वर्तमाने तथा पुन. ।। २४५ ॥ पुण्योदयवशात्त च, भविष्ये सुखभोगिनः । ज्ञातव्यं दु.खभोक्तृणां, तथा सुखभुजां भुवि ॥२४६॥ ततः किं कथयन्त्वद्य, वर्तमाने च पापिनः । भविष्येऽपि तथा सन्ति, नियमोऽप्यस्ति किमीश. ॥ नियमोऽप्येतादृशश्वापि, जनाश्च बहवो भुवि । पूर्वपापवलादन, दु.खिता जीवदु खदाः ॥ २४७ ॥ तेऽप्यग्रजन्मन्यन्ते च, दुखिनो मनुजाः पुनः । तथेशजनानान्तु, का सज्ञेति वदन्तु नः ॥ २४८ ॥ पापांनुर्वन्धिपापिनो, ज्ञातव्यं शास्त्रमानतः । पूर्वजन्मार्जितानां च, दुःखानां भोगिनोई.' धुना ॥ २४९ ॥ इदानीं कुरुते पापं, तद्भोकाऽग्रे 'भविष्यति । किंवैतादृशो नियमः, शास्त्रेऽप्यस्ति प्रमाणतः ॥ वर्तमाने सुखं भुंफे, भविष्येऽपि पुनः सुखम्