________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३५५ ॥ २५० ॥ योगोऽनघो महत्तत्वप्रापकोऽस्त्यमरनुमः ।। तस्य सेवनमात्रेण, याति योगी परम्पदम् ॥ २५१ ॥ भवितुं शक्यते चेत्यं, भूतकाले च ये नराः। प्राणिना सुखदातारो, बन्धयित्वाऽतिपुण्यकम् ॥२५२ ॥ तेनात्र सुखसम्पन्नाः, पुण्यमेवाश्रयन्ति ते । भविष्येऽपि पुनस्तद्वत्पुण्यस्यैवानुवन्धनम् ॥ २५३ ॥ एता. दृशजनस्यात्र, शास्ने पुण्यानुबन्धकृत् । पुण्यवान्कथ्यते लोके, पूर्वपुण्यप्रभावत: ॥ २५४ ॥ सुखी भूत्वा स चेदानीं, वर्तमाने करोति चेत् । पुण्यं भविष्यकालेऽपि, पश्चादपि सुखी भवेत् ॥ २५५ ॥ कर्मणा चतुष्टयं चेत्थमनुवन्धं भवत्यदः । विहेंयश्चानुवन्धार्थो, वन्धनं शास्त्रसम्मतम् ॥ २५६ ॥ भुंके च तत्फलमये, शुभाशुभानुवन्धनैः। अस्त्येवं च सुखीदानीमशुभेन च दुःखभाक् ॥ २५७ ॥ पापानुवन्धिपापश्च, पापानुवन्धिपुण्यकृत् । पुण्यानुबन्धिपापश्च, पुण्यानु. बन्धिपुण्यवान् ॥ २५८ ॥ चतुर्विषं सुविज्ञेयमनुवन्धस्य साधकैः । समयेऽत्र सुखं पश्चादप्रेऽपि सुखप्रापणम् ॥ २५९ ॥ इत्यं कर्मफलं दु खमथवा सुखसं. भव. । परन्त्वव्याधिमोक्षस्य, सुखस्यापि कदाचन ॥ २६० ॥ समाप्तिनं भवेश्चैवमध्यात्मिकसुखाप्तये । कायिके सुखभोगश्च, हेयं सर्वत्र सर्वदा ॥ २६१ ॥ अर्थाच्चपुण्यपापानां, क्षयं नीत्वाऽऽत्मरूपके । स्थातव्यो मनसाऽप्रे च, कीदृशोऽप्यनुवन्धनम् [न वन्धनीयो हेयश्च, नयविद्भिरिहोच्यते ] ॥ २६२॥ यत्तालुमूलात्नवतेऽमृतं हि, योगी जनस्तत्पिवति प्रध्यानात् । तेनैव तृप्तिश्च तथा विमुक्तिः, सञ्जायते योगिजनस्य नित्यम् ॥ २६३ ॥ बन्धव्योऽस्त्यनुबन्धश्चेत्पुण्यस्यैवानुवन्धनम् । पापानुवन्धं नो कुर्याद्धय एवास्ति सर्वदा ॥ २६४ ॥ कुत. पुण्यानुबन्धस्य, बलादेवं फलं भवेत् । यत. स्यात्कर्मनिर्जरा, न पुनः कर्मसम्भवः ॥ २६५ ॥ स्वतत्रतायाश्चैतद्धि, द्वितीयं द्वारमिष्यते । ज्ञात्वैवं च विवेकेन, साघ्यो योगश्च साधकैः ॥ २६६ ॥ योगान्नास्त्यपर: कश्चिन्मुक्तिसिद्धिकरोऽधुना । तस्माद्योगमुपाश्रित्य, याति योगी परम्पदम् ॥ २६७ ॥ योग. कल्पतरुर्विपत्तितरणिरज्ञाननाशोद्यतो, येन स्याच जराऽपमृत्युहरणं योगार्थिनां दुःखहा। वृत्तिः स्यादचलाऽऽत्मनि प्रवितते यस्मात्परा निर्मला, योगे निर्मलचेतसां हृदि मुहुर्मुनिश्च वा भ्राजते ॥ २६८ ॥ योगो हि निर्मलादर्शो, यत्रात्मा च प्रदृश्यते। लोकखान्तर्गत वस्तु, निशामय गुरोर्मुखात् ॥ ॥ २६९ ॥
इति वीरयोगतरङ्गः समाप्तः ॥
-