________________
वीरस्तुतिः ।
भ्यतेऽनेकक्रियाविशेषा ॥ १११ ॥ जित्वासनं दृष्टिजितार्थमेवमत्यन्तमावश्यकपूर्णभावात् । दृष्टेर्जयस्येदमवेहि लक्षणं, नेत्रापिधानं न भवेद्धि पूर्वम् ॥ ११२ ॥ 'निमेषमेषैर्भवतीह दृष्टिस्तेनैव योगस्य फलं प्रदिष्टम् | योगेऽस्ति यत्राटकसंज्ञकं च, सूत्रेष्वपि प्रोक्तमथेतरत्र ॥ ११३ ॥ उन्मेषमेपाद्यतिरिक्तभावे, प्रमाणमासलभते मुहुश्च । संसिद्धये त्राटकमुद्रयार्थ, जितार्थमीदृक् खलु दृष्टिपुष्टे ॥ ११४ ॥ प्रात दिनान्ते च सुसिद्धसाधकः, स्थित्वाssसने प्रोतयथेष्टसाधनम् । स्वतः सपादात्क रतस्तथान्तरे, निर्माय तूला मृदुलं सगोलम् । संस्थापनीयं परितो यथेष्टम् ॥११५॥ विनासनेनेति च योगसिद्धि, योग विना नाऽऽसनसिद्धिमेति । द्वयोः श्रमादृष्टिनिरोधनं स्याद्दृष्टेर्निरोधात्तु समाधिसिद्धिः ॥ ११६ ॥ समाधित आत्मसुखोपलब्धिस्ततो मुमुक्षु. समुपैति मुक्तिम् । मुक्तौ सदा ब्रह्मणि लीनभावे, जगद्विलीने च विभाति योगी ॥ ११७ ॥ तद्गोलके दृष्टिरुपासनीया, किचिच्च काले हि यदाश्रुपातः । नेत्राद्विनिर्गच्छति चेत्तदाश्रुपातो यदाऽऽरम्भविकल्पकाले ॥ ११८ ॥ तदा त्राटकं मोचयेत्सर्वकाले, यदा स स्थिरत्वं मवेत्कायमध्ये । सदैवं मनः शान्तभाव प्रयाति, मुनेर्योगतो वाऽचला बुद्धिरेका ॥ ११९ ॥ चतुर्दिनान्तेऽष्टदिनान्तराले, सम्प्रोक्षयेदथुकलानिपातम् । न लोपनीयं किल नाटकं च श्रमो विधेयच सदे - शोऽपि ॥ १२० ॥ न स्यात्कदाचिन्नयने पिधाने, कृते प्रयासे यथा शान्तिरुप्रा । समृद्धिर्भवेदनुदिनं चेत्सदा स्थापनीयं, प्रवृत्तिर्यथा स्यात्सुयोगे मुनीनाम् ॥ २२१ ॥ यदैका घटीतोऽधिका पक्ष्म पतिर्निरुद्धा भवेच्चेत्तदा नूतनानाम् । महाश्वर्यरूप सुवार्तान्विताना, दरीदृश्यते योगिवय्यैर्मुनीन्द्रैः ॥ १२२ ॥ यदा यदैवं च प्रयाति वृद्धिस्तदा तदा तस्य च साधकस्य । सदानन्दप्राप्तिर्भवेदंशकेऽपि विचार्य महद्भिः सदैवं विरागैः ॥ १२३ ॥ यदा यदा जेष्यति दृष्टिपातं, ततस्वतस्तन्मनसोऽपि शान्तिः । सजायते दृष्टिजये मनोपि, शान्तं जयचापि भवेद्धि तस्य ॥ १२४ ॥ नेत्रान्तरे पक्ष्मपङ्को नितान्तं, सुसंस्थापयेदृष्टिरेवं विचारात् । अतः सर्वसूत्रे प्रयुक्तं च तद्वन्मुहु. पुद्गले दृष्टिपातो विधेय. ॥ १२५ ॥ शुभं त्राटकं यस्य जातं स योगी, सुसम्यक्त्वतत्वे विलीनो विभाति । निरस्याखिला भावना पोहलीयां, सदा प्राणिनां प्राणरक्षां विधत्ते ॥ १२६ ॥ मुदेत्थं क्रिया ध्यानयोगस्य नित्यं, महापुरुषतः शिक्षणीया प्रयत्नात् । सुदृष्टेर्जयाभ्यासमेत्यैकघंटापर्यन्तमन्यत्र ससाधकानाम् ॥ १२७ ॥ दिनस्यादिभागे गिरेः कस्यचिद्वा, जनोऽप्यूर्द्धभागेऽथवा स्थापनीया । सुदृष्टिर्निशायां शशाङ्के सितस्य, कुनस्याच तारासु संस्थापनीया
३४८
>
M
•