________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३४७ योगाभ्याससंसिद्धिस्तत्रैव खलु जायते। यत्सुखं वीतरागस्य, मुनेरेकान्तवासिनः । तत्सुखं देवराजस्य, चक्रिणो न कदाचन ॥ ९१॥ नासनेन विना सिद्धिर्जायते न रजोवृते । रह स्थाने चेदासनस्य, ज्ञेयमावश्यकं मुहु ॥ ९२ ॥ दर्भासनं प्रशस्तं स्याद्योगिना च मुदे पुन । कम्बलेन तदाच्छाद्य, सर्वथा योगधारकै । एतादृशे साधकानामासने शकिरुज्वला । जायते ननु कायस्य, विद्युत्कोटिसमप्रभा ॥ ९३ ॥ बुद्धिरत्युत्तमा वेति, नो विशेत्सूत्रकासने । तत्रासने साधनत्वे, योगो निष्फलतां व्रजेत् ॥ ९४ ॥ भगवत्यादिसूत्रेषु, प्रोक्त दर्भासनं शुभम् । 'दम संथारगं' चेति, सूत्रार्थेनोपवर्णितम् ॥ ९५ ॥ गणधरस्य मुनेश्च, गौतमस्य तथा पुन । केशिखामीत्यादिना च, खागतार्थं समाहितम् ॥ ९६ ॥ आगन्तुकेभ्यो नितरां, सुदर्भासनमेव हि। प्रदत्तं चोपवेशार्थमित्येव च तदासनम् ॥ ९७ ॥ प्रशस्त सर्वासनेभ्यो, सुदर्भासनमुच्चकै. । जैनाना च तथा रीतिरेषा दर्भासनार्पणे ॥ ९८ ॥ तदभावे प्रशस्तं स्यात्कम्वलासनमेव च । दर्भासनोपरिष्ठात्तु, कम्बलासनमिष्यते ॥ ९९ ॥ तत. पद्मासनं वद्धा, मनसोऽप्यनुकूलत । पुनरासनेदृशे च, साधनं समुपविश्य च ॥ १०० ॥ साधयेच्छुद्धमनसा, योगं योगस्य सिद्धये । दिशि पूर्वे चोत्तरे च, मुखं कृत्वा समभ्यसेत् ॥ १०१ ॥ तदेवोक्तं 'पुरत्थाभिमुहे' 'सपलियंकनिसण्णया' इत्येव कथितं सर्वमासन क्रमतो जिनैः ॥ १०२॥ कमलाख्ये वा पर्यके, स्थित्वा चाप्युत्तमासने । मुखं पूर्वदिशि कृत्वा, वामहस्ते च दक्षिणम् ॥१०३॥ करं घृत्वा कटिं तद्वत्कण्ठे चैवं च मस्तकम् । सदैकपंक्तौ सस्थाप्य, साधयेदप्रमादत ॥ १०४ ॥ स्थाप्यं श्मश्रुविभागेऽधो, हनौ स्वन्तर्गते पुनः । ईदृगासनमारूढो, योगी याति परं शमम् ॥ १०५ ॥ प्रातर्दिनान्ते च पुनर्निशाया, पूर्वे परे याममये च काले । मध्याहवेलासुसमाहित सन् , योगी सदाऽनेन सदास. नेन ॥ १०६ ॥ करोतु योगस्य सुसोधनं वै, यद्येकयामान्तसुखेन योगी। भूत्वा स्थिरो जातु सदा सुशक्यस्तदा च ज्ञेया विजयोपलब्धिः ॥ १०७ ॥ जातासने चासनसिद्धिरुग्रा, विनासनाद्धि विजयो न योग । सिद्धयेत्पथो प्राणशरीरवृत्तौ, तदा सुदृष्टौ विजयोऽपि लभ्य. ॥ १०८ ॥ प्राणेन्द्रिये वापि तनी सुदृष्टी, प्राप्नोति योगी विजयं समन्तात् । सदेत्यमेवं च विना न योगमात्मोपलब्धिर्भवतीति ज्ञेयम् ॥ १०९ ॥ अतो नितान्तं श्रमतो गुरोश्च, युक्तर्विशेषेण च प्रापणीयः । जयोऽप्यजस्र खल वासनस्य, जानन्तु सर्वे मुनयो नितान्तम् ॥ ११० ॥ जितासनानन्तरमेव शश्वद्यमादिनियमादिजयोऽपि लभ्य । जितासनानन्तरसाधकेन, सला