________________
३४६ ... वीरस्तुतिः। । लब्धवानूनं, पदं महात्मनां ध्रुवम् ॥ ६६ ॥ "सोवागकुल" संभूतश्चेत्युक्तं मुनिपुङ्गवैः । तदाशयोऽय विज्ञेयश्चाण्डालकुलसंभवः ॥ ६७ ॥ हरिकेशी मुनिर्जात; सर्वोच्चै पदवीं गतः । उत्तराध्ययने प्रोक्त, “सक्खं खु [चेति] दिस्सई" ॥६॥ तदर्थोऽयं च विज्ञेयो, योगमाहात्म्यमुत्तमम् । प्रत्यक्षं दृश्यते यत्र, नास्ति जातिविचारणा ॥ ६९ ॥ हरिकेशी योगी चाण्डालो, जात्या चासीद्विशेषतः। परन्तद्योगवृद्ध्यझे, सर्वनेत्रं पिनष्टि च ॥ ७० ॥ तामसीवृत्तियुक्ताना, योगसिद्धिः कदा . चन । भवितुं शक्यते तस्माद्योगो योगविजानताम् ॥ ७१ ॥ घृतक्षीरादिकं नित्यं, । भोजनं सात्विकं वरम् । भगवता कृष्णचन्द्रेण, गीतायामुक्तमीदृशम् ॥ ७२ ॥ . सात्विकाना जनाना तु, रसयुक्तं मृदु स्थिरम् । हृद्यं भोजनमाख्यातं, सात्विक प्रियमात्मन ॥ ७३ ॥ आयुष्यबलबुद्धीना, वर्द्धनं जायते यत । परन्त्वधिकतिकाना तैलादीना न कारयेत् ॥ ७४ ॥ तामसानां पदार्थानामुपयोगं कदापि न । नात्यन्तं च कटुं तीक्ष्णं, न चाम्लं तिकभोजनम् ॥ ७५ ॥ परिहरेहरतो योगी । नाम सयोगसाधने ॥ ७६ ॥ रतश्चावश्यकत्वे हि, नाधिकं वचनं वदेत् । प्रयोजनं विना योगी, मौनमेव समाश्रयेत् ॥ ७७ ॥ अन्यथा वाग्व्यये जाते, विकारत्वं । प्रपद्यते । योगे विचारतो नूयादिति योगविदो विदुः ॥ ७८ ॥ योगसाधननिष्ठाना, पुरुषाणां महात्मनाम् । सकाशात्सर्वक्रिया ज्ञात्वा, तथा तत्तालिका यति. ॥ ७९ ॥ योगसिध्यै पवित्रे च, तथैकान्ते विनिर्जने । देशे योगक्रिया शिक्षेदथवा गिरिगव्हरे ॥ ८० ॥ एकान्तातिरिक्त च, स्थाने नैव प्रसिध्यति । अत: प्राचीन कालीना., पुरुषा वहवो मुहु ॥ ८१ ॥ यत्रासन्सालिका वृक्षा, लतागुल्मादिसंवृता.। पर्वतास्तद्गुहाश्चापि, तथा सुखकरा. पुनः ॥ ८२ ॥ तत्राभ्यस्तवन्तस्ते, योगसाधनिकाक्रियाम् । यत्रातिसात्विकाः शश्वद्वनस्पत्यादयस्तथा ॥ ८३ ॥ महात्मना शुद्धरज कणिका पतिता भुवि । वातावरणकं चैव, तत्र स्थानं प्रकल्पयेत् ॥ ८४ ॥ तत्र स्थले निवसता, चञ्चलत्वं विहाय च। मन शान्तं भवेन्नित्यं, तत्रैव वसतां नृणाम् ॥ ४५ ॥ अतस्तत्स्थानक तेषामनुकूलं सदा प्रियम् । यत्सुखं राजभवने, धर्मयुक्त तथा पुनः ॥८६॥ स्वप्नेऽपि नाप्यते तच्च, सुखं नान्यत्र कहिचित् । आनन्दानुभवं कुल्लुशिमलादिप्रदेशके ॥४७॥ हंसतीर्थे हिमागारे, गमने यच्च लभ्यते। नान्यत्स्थले कदापि स्यादानन्दानुभवस्तथा ॥ ८८ ॥ योगिनामिति तेष्वेव, स्थानेषु वसनं वरम् ।' कारणेन कदाचिच्चत्तत्स्थाने नोपलभ्यते ॥८९॥ तदा 'खनगरस्यैव, प्रान्तगे रमणीयके । वनस्पतिसमायुक्त, वस्तव्यं च शुचिस्थलें ॥९॥