________________
३४४
,
वीरस्तुतिः। , " :
निर्वाहार्थ बहुक्रिया । परम्परया विज्ञानं, वोधयन्ति सदार्थिनः ॥ १९ ॥ तथा परम्पराचक्रानुसारेणेव शिष्यका । कुर्वन्ति ता. क्रियाः शश्वन्नर्तनैर्ननिर्मुदा ॥२०॥ : अस्या दशायां केचित्तु, कदाचित्सुखवाञ्छया । प्राणिनश्चेदृशा सन्ति, येषां चित्तं न सुस्थिरम् ॥२१ ॥ सन्तोष सुखसिद्ध्यर्थमसन्तोषाद्दशेदृशी। भद्रप रिणामवन्तो, जीवा सुखविवृद्धये ॥ २२ ॥ रक्तं खेदं च कुर्वन्ति, सदैकीमावमास्थिता । रज प्रक्षेपणेऽप्येवं, न पृथग्भावमश्नुते ॥ २३ ॥ सुखं तत्साधनं तद्वत्समं ये चामुवन्ति ते । नान्यथाऽभ्यन्तरोपार्यदृश्यतामिह चार्थिमि ॥ २४ ॥ एवं प्रवर्तितं चक्रं, तदने सफलीभवेत् । सत्यात्मकस्य सर्वस्य, सुखस्य साधनं । वहु ॥ २५ ॥ समये प्राप्नुवन्त्येवं, न वाचेति सनातनम् । इत्थं दयामयीं तेषां, स्थितिं प्रतिमुशक्यते ॥ २६ ॥ स्पष्टं ज्ञातुं स्थायिनं च, सुखं वास्तविकं पुनः । सत्यसाधनसञ्चार, कर्तुमत्रात्यवश्यकम् ॥ २७ ॥ सत्यसाधनयोगो हि, सर्वोपरि विराजते । तथाऽद्वितीयं संमान्यं, चमत्कारकरं पुन. ॥ २८ ॥ अस्ति साधनकं । पुण्यं, प्राप्यते तद्गुरोर्मुखात् । उपयोगे प्रकुर्वन्तः, खल्पकालेन तत्सुखम् ॥ २९ ॥ अवश्यमेव लब्धव्यमखण्डमव्यय ध्रुवम् । योगश्चैतादृशं वस्तु, न स्वयं ज्ञायते क्वचित् ॥ ३० ॥ योगयुक्तादात्मविदः, कस्मादपि महात्मनः । ज्ञातव्यो विषया- । सक्तानाप्यते स हि योगिन. ॥ ३१ ॥ यथोदरभरो योगी, संसारासतचेतनः । वाह्यत साधुवद्वृत्तिस्तस्मै योगोऽस्ति दुर्लभ ॥ ३२ ॥ एवं भूताद्योगिनश्च, नाप्यते योगसाधनम् । तस्माच्छास्त्रपरोद्योगः, शिक्षणीयो महात्मन ॥ ३३ ॥ योगिनोऽद्य न लभ्यन्ते, भारते योगधारका. । परं प्रयासकरणाच्छोधव्या योगिनोऽधुना ॥ ३४ ॥ मुयोगाभ्यासतो नित्यं, समाधानेन चेतसा । अथवा दूरत स्थेयं, कंचिद्योगविदं जनम् ॥ ३५॥ समाश्रयन्तु येन स्यात्साध्यसाधनमुत्तमम् । परन्त्वियं कर्तव्यं, स्मरणं साधनं विना ॥ ३६॥ नाप्यते सत्सुख कैश्चिदिति.. जानन्तु साधका । परन्तु स्वसमीपेऽस्ति, तत्सुखं खात्मनि स्थितम् ॥ ३७ ॥ अन्तर्दृष्टितोऽभ्यासाज्ज्ञापयन्ति सुखं परम् । येषां सनातनस्यैवं, सुखामीप्टोपलव्धये ॥ ३८ ॥ योगसाधनवान्छा चेद्योजनीयं मनो मुहुः। योगस्य योगिनां चात्र, महत्वं परमोच्चकैः ॥ ३९ ॥ गीताया तच कृष्णेन, सर्वमुक्तं महात्मना । तपखिभ्योऽधिको योगी, इति इलोकेन वर्णितम् ॥ ४० ॥ अनेकघोपवासादितपो दीर्घातिदीर्घकम् । कृत्वाऽपि च न लभ्येत, योगी कश्चिन्महोदयः ॥४१॥ अतो योगी महानस्ति, सर्वतो भारवें कलौ । नयनिक्षेपदेवादेरायुष्यभनक तथा ॥४२॥