________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३४३
वीरस्तुति-परिशिष्ट नं० ७ ॥ अथ वीरयोगतरडाः॥
मङ्गलाचरणम् ॥ . योगाजानाति स्वात्मानं, योगः शान्ति प्रयच्छति । योगान्मो क्षोऽमिसंयाति, योगाद्देशसमुन्नतिः ॥ योगानिर्वैरतामेति, समाधिरचला भवेत् । योगेन समताऽऽयाति, तस्माद्योगात्मने नमः ॥ १॥ योगिनां सर्वतो मैत्री, योगी सम्मुदितां गतः। करु. णान्वितो भवेद्योगी, योगे माध्यास्थ्यभावना ॥२॥ योगशास्त्रे तथाऽन्यत्र, योगस्य प्रतिग्राहिता । तेन योगतरङ्गस्य व्याख्या पद्येन गीयते ॥ ३ ॥ योगेन भित्वा षट् चक्र, वायु सस्थाप्य मूर्द्धनि । ब्रह्मरध्रस्थकमले, सहस्रदलसंवृते ॥ ४ ॥ खान्तमाकृष्य विषयाजलबुद्बुदसनिभात् । सस्थाप्य ज्ञानतो वध्वा, ध्रुवं ब्रह्मणि निष्कले ॥ ५॥ द्विविधं कर्म संन्यस्य, योगी यात्यपुनर्भवम् । तस्माच्च योगमाहात्म्यं, वर्तते सर्वतोऽधिकम् ॥ ६॥ अतश्च योगशास्त्रस्य, महत्वं वर्णितं बुधै । तद्व्याख्यानं मयेदानी, गीयतेऽभीष्टसिद्धये ॥ ७ ॥ योगो निर्मलचेतसा वितनुतेऽप्यष्टामसिद्धिं पुनर्योगाझेन मनो नियम्य यतयो याताः पदं निर्भयम् । योगोऽज्ञानमयान्धकारतरणिर्योगान्न चान्योऽपरस्तस्माद्योगमुपाश्रयन्त्वनुदिनं यो योगिनामिष्टद ॥ ८॥ संसारेऽत्र सुखं ग्राह्य, हेयं दु खमिति स्थितिः । इत्यनुसृत्य वाञ्छन्ति, सुखं प्रत्येकप्राणिन. ॥९॥ दु खं तत्कारणं वेति, ते नेच्छन्ति कदाचन । तस्मात्सुखाप्तये योग , सेवनीय. सुखार्थिमि ॥ १० ॥ न येतावद्धि मात्रेण, प्रत्युतैवं सुखर्द्धये। नित्यं कुर्वन्त्युपायं ते, शतशो यत्नतो मुदा ॥ ११ ॥ तैरुपायैर्यदात्यन्तं, जायते सफला क्रिया । तदानन्तसुखावाप्ति, लब्ध्वा यान्ति कृतार्थताम् ॥ १२ ॥ इत्थं मत्वा सुखाप्त्यर्थ, सर्वसाधकसाधने । मुख्यो धर्मो न चान्योस्ति, तस्माद्धर्ममुपाश्रयेत् ॥ १३ ॥ स च योगात्परो नान्यो, ज्ञातव्यो योगसाधकै । एवं धर्मो धारणीयः, सत्सुखाप्तिकरो यत ॥ १४ ॥ योगतो लभ्यते स्वर्गोऽपवर्गश्च महात्मभिः । कायस्य वैधते कान्तिरुज्वलात्मसुखोदया ॥ १५॥ वर्तमाने युगे चास्मिन्ननेकमतवम॑नि । पार्टिवाजी सम्प्रदायसोडागच्छटोलकाः ॥ १६ ॥ वर्तन्ते ये च धर्मस्य, नामोपरिचलन्ति ते । तेऽमरशहीदका भृत्वा विहरन्ति यथेच्छया ॥ १७ ॥ योगसाधनतस्ते च, विमुखा निजशिष्यके । सुखसाधनदानार्थमसमर्थी भवन्ति ते ॥ १८॥ खसम्प्रदायसघस्या