________________
३४२ , वीरस्तुतिः। - रुशब्दस्तनिवर्तकः । मिलित्वां च द्वयोरों, गुरुरित्युच्यते बुधैः ॥ ५३२ ॥ अज्ञाननाशनाजातो, जगद्गुरुरथोच्यते। सर्वज्ञश्चापि सोऽत्रैव, “वीरस्तु भग वान्वयम्" ॥ ५३३ ॥ यतोऽन्यदज्ञाननाश, कृत्वा च स स्वयं प्रभु । “जिन्नाण" मित्याद्यखिलो, न्यायस्तत्र सुघठ्यते ।। ५३४ ॥ रत्नत्रयस्वरूपस्य, “वीरस्तु' भगवान्स्वयम् ॥" कारयित्वा ज्ञानमदो, देवगुर्वो रहस्यकम् ॥ ४३५ ॥ तथा धर्मरहस्यं च, सम्प्रकाश्य खयं प्रभु.। सससारमुक्तेश्व, मार्ग सवरनिर्जरे ५३६ ज्ञापितोऽप्यस्ति यस्येल्यं, करणादनुभवस्य हि । मननध्यानमोक्षस्य, साधनाऽऽ. सक्तचेतस ॥ ५३७ ॥ जना हि निखिलाः सन्तः, शीघ्रं प्रापुर्महात्मनः। अतो हि भगवान्वीरो, भवस्यास्याखिलस्य च ॥ ५३८ ॥ कालेऽवसीर्पिणीसंज्ञे, चतुर्विंशतिसङ्ख्यकः । तीर्थङ्करोऽन्तिमोऽप्यस्ति, गुरुर्वन्योऽखिलैनरैः ॥ ५३९ ॥ तद्दर्शितोऽस्ति दशधा, व्याप्तो धर्मो दिगन्तरे। जैनधर्मः स एवात्र, सर्वदा नाऽपरः क्वचित् ॥ ५४० ॥ इत्यं भगवतो महावीरदेवोपदेशत । शुद्धभावेन परमस्तत्वनिक्षेपहेतुकः ॥ ५४१ ॥ पदार्थ खात्मनीत्येव, कृत्वा सन्धानमेव च । तदागमस्य सिद्धान्तमार्गस्य मननं तथा ॥ ५४२ ॥ कुर्वननुभवं तद्वच्छुक्लभावाधिक वेशनम् । गद्गदान्वितकण्ठेन, गाउँस्तद्गुणविग्रहम् ॥ ५४३ ॥ समयं मा प्रमादी- । श्वेति चर्यासमाहित. । अमूल्यसमयं खस्य, यापयन्तु सुध्यानतः ॥ ५४४ ॥ धन्यः स एव लोकेऽस्मिन्कीर्तिमांश्च सुधीर्गुणी । कुत. स एष संसारे, स्याद्वादा.. लङ्कतो नरः ॥ ५४५ ॥ तद्धस्तगतं सर्वमैहिक शान्तिमत्पुनः। जीवनोत्थं मोक्षरूपमपुनरावृत्तिसंज्ञकम् ॥ ५४६ ॥ समुत्थानमयं लोके, चाक्षयं बन्धवर्जितम् । ' कुञ्चिका सैव विज्ञेया, अव्यावाधस्य धामनि ॥ ५४७ ॥ पञ्चाङ्कनभूवर्षे, विक्रमाकस्य संवति । मधुमासेऽथ धवले, पक्षे दशमीसत्तियौ ॥ ५४८ ॥ निवन्धोऽयं समाप्तश्च, श्रीपुष्प-भिक्षुणा कृतः । श्रीमत्फकीरचन्द्रस्य, मुनेः शिष्येण धीमता ॥ शातपुत्रमहावीरजैनसद्धानुयायिना ॥ ५४९ ॥
, मङ्गलं भगवान्वीरो, मङ्गलं गौत्तमः प्रभुः । • 3. मङ्गलं स्थूलभद्राधा, जैनधर्मस्तु मङ्गलम् ॥
शिवमस्तु सर्वजगता, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखिनो भवन्तु लोकाः ॥ १॥.