________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३३९
श्रावका ये च, जैनधर्मानुगास्तदा ॥ ४६६ ॥ *वस्त्रात्मकविधौ स्थूलसूत्रंज वसनं मुदा । तत्तत्त्सामयिका लोका, धारयन्ति स्म तन्मुहु ॥४६७॥ तत्क्षौमयुगलं प्राहुस्तत्कालीना नरा भुवि । निर्माय वसनागारं, स्थूलसूत्रस्य तै पुनः ॥४६८॥ ततोऽन्यद्वर्जयित्वा च, धार्यतेस्म तदेव हि । प्रति ससारिण सर्वानरान्खस्य स्वकीयकम्, ॥ ४६९ ॥ द्विसप्ततिमिताब्दान्त, चायुरुकं समासतः। सज्ञानानन्ततेजोभिश्चतुर्थसमयस्य हि ॥ ४७० ॥ सृष्टिमुद्भासयामास, भन्याना कोटिशो विभुः। शंकाऽऽकाला विरहिता, विचिकित्सा विवर्जिता ॥ ४७१ ॥ अमूढदृष्ट्युपगृहश्च, स्थितिभावस्थेतर । खवात्सल्यमहिम्नैतान् , कृतवान्स प्रभावितान् ॥ ४७२ ॥ स्त्रियः शुद्रास्तथा नीचास्तथोच्चाश्चेत्यमेदताम् । धर्मसाधन समानाधिकारत्वं स्थिरीकृतम् ॥४७३॥ तन्महत्वं कियच्चेति, विचारय मुहुर्धिया। भगवन्महावीरेण, यत्किंचिद्दर्शितं. खलु ॥ ४७४ ॥ आदर्शरूपं तस्याद्यतुलना कर्तुमक्षम । इतिहासपुराणादिजाते भुवि गवेषणे ॥ ४७५ ॥ नान्यत्र कुत्रचिल्लाभो, दृश्यते तस्य नैव हि । प्रत्येकस्य समुल्लेखो, लक्षश कोटिशस्तथा ॥ ४७६ ॥ व्याख्यानस्य निबन्धस्य, जायते रचना वहु । कोऽनन्तसुगुणान्वक्तुं, प्रभो शको भवेन्नर ॥ ४७७ ॥ अतोऽस्य लेखने शश्वद्विषयो न प्रपूर्यते । एतदर्थं केवलं च, समुल्लेखनक कृतम् ॥ ४७८॥ कृत्वा चाशामहं कुर्बे, दृष्टान्तैरेभिरन्वहम् । पाठका स्फुटरूपेण, ज्ञायेरन्सर्वथा यथा ॥ ४७९ ॥ भगवॉश्च महावीरो, वर्धमानस्तथापर । शासनाधिपतिस्तद्वद्धर्म मूर्तिर्जिनेश्वर ॥ ४८० ॥ तीर्थकरो वीतराग , साक्षाद्धर्मप्रवर्तक । जगदुद्धारकश्वासीत्सन्मतिश्च स एव हि ॥ ४८१ ॥ सन्ति संसारगा. सर्वे, समवसरणे स्थिता । यदा मुन्योईयोस्तेजोलेश्यया च विहिंसनम् ॥ ४८२ ॥ हातुं तेजस्तदेवाशु, भगवन्तमुपरि तदा । न क्षमो निघृणश्चास्य, गोशालस्य विशेषत ४८३ शत्रुभावं गतस्यापि, क्षमादृष्टि. खभावत । कृता यैरादर्शरूपो, देवाधीशोऽप्यसख्यया ॥ ४८४ ॥ दयादेव्या स्मारकोऽयं, सन्देहो नात्र कस्यचित् । 'धर्मस्य च समनस्य', लक्षणं तत्र वर्तते ॥४८५॥ न वा पूर्णतया चेदं, विचारेण विभाव्यताम् । समग्रस्य च धर्मस्य, लक्षणं प्रतिपादितम् ॥४८६॥ अथ यशसश्च समग्रस्य-भगवन्महावीरस्य, दिगन्तव्यापिनी शिवा। कीर्तिर्या वितता लोके, तद्विषये निगद्यते ॥४८७॥ पारमार्थिकदृशा वक्तुं, शक्यते चेदृशं पुन. । न केऽपि सन्ति ससारे, प्राणिना भगवद्गणैः ॥ ४८८ ॥ मुग्धभावं न जायन्ते, न • * यदाधुनिकभाषाया 'खद्दर श्वेति गीयते।