________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३३७ कृतम् ॥ ४२१॥ निजाधीनो जनो यश्च, न कुर्यात्वसमं नरम् । स धनी निन्दितो ज्ञेय, इति जानीहि संस्फुटम् ॥ ४२२ ॥ अथ सदाचारिशिष्यान्सदाचारवत. शिष्यान्, प्रति जागद्यते पुनः । यस्तस्य चरणाम्भोजसमीपं सुसमाहितः ॥ समागत्य च दीक्षाया भागवत्याः प्रसादकम् ॥ ४२३ ॥ भगवतः प्राप्तवान्शश्वत्तमेवामेदभावत । कुर्यात्तमुन्नतं चैव, भाविनं सोऽपि वस्य च ।। ४२४ ॥ अध्यात्ममार्ग सम्माष्टुं, योग्यत्वमुपलब्धवान् । तथाऽभयकुमारस्य, धन्यस्य च महामतेः ॥ ४२५ ॥ शालिभदातिमुक्तस्याद्योरुदाहरणानि च । श्रेणिकेन नृपेणैव, मगधेशेन चैकदा ॥ ४२६ ॥ उत्कृष्टक्रियायाश्च, साधना धन्यस्वामिन. । दृष्ट्वा च भगवान् पृष्टो, धन्यनाम्नो मुनेरथो ॥ ४२७ ॥ सुक्रियोत्कृष्टपात्रस्तु, मुनीश. सम्प्रतीयते । परं भगवता चेदं, गदितं तन्निशामय ॥ ४२८ ॥ श्रुतचारित्रपारीणचतुर्दशसहस्रकम् । मुनीना सपरिवाराणा, मुक्तमालामणेनिभम् ॥ ४२९ ॥ यथोचितमिदं श्रुत्वा, चोत्तरः श्रेणिकस्य हि। समस्तमुनिसङ्घ च, जाता श्रद्धा समा धिया ॥ ४३० ॥ अथ पितुर्मित्रं प्रति-मित्रं प्रति पितुश्चैकवारं छद्मदशास्वपि । भूमण्डले भ्रमनस्मिनेकसन्यासिनो मठे ॥ ४३१ ॥ निवसितुं निशामात्रमिच्छया समुपागतः । मठाधीशो मित्रपुत्रं, ज्ञात्वा तत्प्रेमरश्मिना ॥ ४३२ ॥ बद्धो भूत्वा वाहुपाशे, गृहीत्वा तं च सङ्गतः। तथेयं च कृता तेन, प्रार्थना भगवन् ! पुनः ॥ ४३३ ॥ भवान्मिनं च सिद्धार्थराजस्य तनयोऽस्ति च । अतो मनस्तनुश्चेयं, स्थानं चेद तवैव हि ॥ ४३४ ॥ अतश्चागामिनि वर्षे, चातुर्मास्यव्रतं महत् । अत्रैव कृत्वा पूतं हि, कुरु स्थानं मदीयकम् ॥ ४३५ ॥ मौनावस्थाखपि भगवान् , ददौ वै खीकृतिं पुनः। शेषकालं यापयित्वा, तन्मठस्य च सन्निधौ ॥ ४३६ ॥ तृणमयी कुटी स्थित्वा, कृत्वा ध्यानं स्थिर पुनः । कायोत्सर्गे लयो जातश्चातुर्मास्येषदेव हि ॥ ४३७ ॥ व्यतीते दिवसे जातो, दुर्भिक्षस्तु महॉस्ततः । तृणाभावाच्च पशव , क्षुधार्ता वेदनोदये ॥ ४३८ ॥ तदा तत्पर्णशालायास्तृणपुझं मुहुर्मुहु । निष्कास्य भक्षयामासुस्ते तदा कालयोगतः ॥ ४३९ ॥ नावरुद्धा मठाधीशो, दृष्ट्वेद वृत्तमद्भुतम् । आश्चर्ययुक्तोऽभूत्तस्मिनैतादृशं कदापि हि ॥ ४४०॥ निस्पृहत्वं मया दृष्टं, न कृतं गृहरक्षणम् । पर तस्य मनोभावं, ज्ञातवान् क्रमश प्रभु.॥ ४४१ ॥ ज्ञात्वाऽप्रियकर स्थानं, विहारं झगिति कृतम् । शान्तिर्भमा न मे भूयादिति तेन विचारितम् ॥ ४४२ ॥ "संकडे सकडं ठाणं", दूरतः परिवर्जयेत् । सिद्धान्तस्यति सारे वा, स्थापनं कृतवान्मुहु. ॥ ४४३ ॥ अथ धाद्विचलितान् प्रति
वीर. २२