________________
३३२
वीरस्तुतिः।
-
- .
कम् । क्रोधोऽयं चातिपापात्मा, सञ्चरित्राच्च मां पुनः ॥ ३२३ ॥ पातितवानन . योनौ, निकृष्टायामिति स्थितिः । जन्मत्रयेणान बद्धो, विभो! वन्दिगृहाच्च माम् ॥ ३२४ ॥ भीषणायंत्रणाच्छीघ्रं, मोचय मामिति प्रार्थना । प्राप्य -चैवं विसवादं, विवेकपद्धति गतः ॥ ३२५ ॥ सम-संवेद-निर्वेद, वलादध्यात्मकं रसम् । पिवन्नास्ते सुखेनैव, आयुरन्तिमकान्तकम् ॥ ३२६ ॥ श्वासोच्छा. सकपर्यन्त, परमुत्कृष्टसमाधिना । सल्लेखनायाः प्रारम्भ, कृतवान् शान्तितत्परः ॥ ३२७ ॥ अभ्यस्तपारीणमहानागः पञ्चमके दिने । मृत्वाऽष्टमसहस्रारवर्गातिथिरजायत ॥ ३२८ ॥ धन्योऽस्ति भगवस्त्वं हि, पशूनपि मनुष्यवत् । श्राद्धधर्माधिकारं च, दत्वा तेभ्योऽपि तान्पुन. ॥ ३२९ ॥ भव्यात्मकॉस्तथा चके, भावुकानथ भावत । घटनयाऽनया स्पष्टं, सिद्धं जातं पुरातनम् ॥ ३३० ॥ यथा मम प्रिया. प्राणास्तथाऽन्येषा हि देहिनाम् । इत्युक्तेन प्रका. ' रेणाऽहिंसाणुव्रतधारणे ॥३३१ ॥ "क्रोधाद्वन्धच्छविच्छेदोऽधिकभाराधिरोपणम् । प्रहारान्नादिरोधश्चा, हिंसाया. परिकीर्तिता" । जीवान्स्थापितवाल्लोके, तेभ्यश्चात्मतपोवलात् । शिक्षामप्यात्मयोगस्य, दत्तवान्याययोगतः ॥ ३३२ ॥ यतस्ते भवतो मुक्ता, पशूनामिति ज्ञायताम् ॥ अथास्पृश्यानामुद्धारम्पतितोऽस्पृश्यकोद्धार, इति सिद्धान्तभावनाम् । संस्थाप्य सर्वजातीना, मनुप्येषु वयं प्रभु ॥ ३३३ ॥ तुल्य वर्माधिकारश्च, सुप्रदत्तो विधानत । “शूद्रो भवति धर्मात्मा, शश्वच्छान्ति नियच्छति" इति कृत्वाऽनुवादं च, उच्चावचविभागशः ॥ ३३४ ॥ स्पृश्याऽस्पृश्यविचारस्य, ससारात्स्थानमुद्गतम् । स च निर्मलसद्धे खे, 'हरिकेशवलो' यथा ॥३३५ ॥ जात्या चाण्डालयोनिस्थो, मुनिसद्धे स्थानमाप्तवान् । ऐतिहासिकदृष्ट्या तु, शासनेऽद्यापि तस्य हि ॥ ३३६ ॥ उत्तराध्ययनसूत्रेपु, सुवाक्यगौरवेण च । दृश्यते श्रूयते चापि, तत्र हेतुरयं चुनः ॥ ३३७ ॥ यथा 'तेन्दुक' देवोऽपि, तदपारां भकिमकृत । तस्येदमेव मन्तव्य, गुणस्थानप्रतिक्षणम् ॥ ३३८ ॥ यश्च कश्च समारूढो, न शेपं तस्य पातकम् । यद्गुणस्थानसद्धिरुत्तरोत्तरभावतः ॥ ३३९ ॥ स हि तावच निर्बाणापुनरावृत्तिसनिधिम् । गतोऽतो धार्मिके तद्वद्वयावहारिकगे पुनः ।। ३४० ॥ नो विचारोऽस्ति जात्यादेः, कर्हिचित्सन्धिनाऽनया । शासनस्य ध्वजावद्यः, सौकरः पशुघातकः ॥ ३४१ ॥ जातीयस्याप्यभेदेन, विधामो मिलितस्ततः । भावोऽयं तस्य विज्ञेय., स्पृश्यास्पृश्यस्य बन्धनम् ॥ ३४२ ॥ शिथिलत्वं प्रदायैव,