________________
संस्कृतटीका-हिन्दी-गुर्जरभापान्तरसहिता
३३१
हृदये चावघार्य्यताम् । अपुनरावृत्य भावस्य, पन्था तेनैव दर्शितः ॥ ३०४ ॥ अथ मनुष्यवन्मूकपशुरक्षणम्-मनुष्यवन्मूकपशूनरक्षयत्वयं जिनः । यदा हि वाममार्गाणा, प्रसारमधिकं ह्यभूत् ।, तदा ते दयया हीना, व्याजाद्यज्ञाच्च कोटिशः । पशवो वहवस्तैश्च, हता मूका निरागसाः ॥ ३०५ ॥ तस्मिन्काले व शमिना, घातकास्ते तपोवलात् । अवरुद्धाश्च वीर्येणानन्तशक्त्या तथा पुनः ॥ ३०६ ॥ न हन्तव्या न हन्तव्या, घोषणेयं मुहु कृता। अवरुध्य भीषणं काण्डं, ससारस्थितप्राणिनाम् ॥ ३०७ ॥ रक्षिताश्चानन्तजीवास्तथाऽसिघातनादपि । तस्यायमुपकारस्तु, धर्मोऽयं च पुरातन. ॥ ३०८ ॥ मुद्राहिता. कृतास्तेन, तत्स्मृतिर्वर्ततेऽधुना । महोदयो वालगङ्गाधरतिलकसंशकः ॥३०९॥ नेता श्रीभारतस्यासीद्धन्यवादं प्रदत्तवान् । जैनसमाजवृन्देभ्यो, नैतच्चाल्पमहत्वकम् ॥ ३१० ॥ अपकर्तृपशूद्धारो, मनुष्य इव सत्कृत.। हिंसकादेरपकर्तुः, पशोरप्यपकारणम् ॥ ३११॥ सदोपेक्षैव सद्भावा, कृता तेविति संस्फुटम् । हिंसावृत्तिरताना तु, पशूनां वृत्तिपाशवीम् ॥ मोचयित्वा समाधेश्च, दत्वा बोधमनामयम् ॥ ३१२ ॥ सदाचाराधिकार च, ददाति स न संशयः। यथा चण्डकौशिकेन, विषाकान्तमहोरगे ॥ ३१३ ॥ वेदना दंशजा शश्वच्छान्त्या सर्वं विशोडवान् । कृपया तं च सन्मार्ग, सदाचारे तथा पुन. ॥ ३१४ ॥ स्थापयित्वा प्रबोधेन, श्रीमुखेन च भाषितम् । चण्डकौशिक ! बुध्यस्व शान्तियुक्तो निशामय ॥ ३१५ ॥ शब्दा एवं प्रकथिता, नरकायेन रक्षितः । पतनतोऽवनं जातो, जगद्गुरुप्रसादतः ॥ ३१६ ॥ शान्त्यैवं सुवोधितोऽपि, सुप्तावस्था गतोऽप्यसौ । क्षिप्त जागरितो बुद्धो, विवेकसमशक्तितः ॥ ३१७॥ साधयति स्म कार्य च, किं मया श्रूयतेऽधुना ॥ एवं विचारितस्तेन, कि शब्दोऽयं कृपामय. ॥ ३१८ ॥ पूर्णा दया च तस्याऽस्ति, न वा चेति विचार्य्यते । एतद्वाक्यकदम्बाना, न जाने खाशयं पृथक् । एतद्वधिरपानेन, सितां च शर्करामपि ।, तिरस्करोति स्वादेन, नो लब्धा चेदृशी मया ॥, ज्ञाते मयाद्य संचारः, शान्तेरस्य च नाडियु ॥ ३१९ ॥ आशा नामापि नास्त्यत्र, मृत्युभयस्य का कथा । परमस्ति क्षमायास्तु, पराकाष्ठेति धारय ॥ ३२० ॥ अपकारकारिण्यपि, क्षमा स्वाभाविक्री कृता.। आवश्यकाधिकानन्ता, शान्त्याख्यकवचोपरि ॥ ३२१॥ सन्मार्गे मां च ह्यानेतुं, कियच्छाघ्यो महानपि । समालोचनपूर्व हि, तस्मै खदर्शनं बभौ ॥ ३२२ ॥ जातिस्मृतिकं सआतं, ज्ञानं गतजन्मस्मार