________________
३३० ' , वीरस्तुतिः। , . विनिर्पणतरों, कठोरहृदयोऽपि च । त्वत्समो नास्ति संसारे, परिपक्वो दयानिधे! ॥ २८४ ॥ एवमुक्त्वा चालयन्तो, ध्यानादुद्विग्नमानसा. । समाश्रित्य खमार्ग ता, गता खसदनं प्रति ॥ २८५ ॥ अतोऽस्माकमियं शिक्षा, सामायिके च संवरे । प्रौषधे प्रतिक्रमणे, समाराधनके क्षणे ॥ २८६ ॥ रचनीये दृशी चर्या, यतः स्यादचलाऽनघा । भूत्वा विषयतस्तद्वद्विजयःस्यादनुक्रमात् ॥ २८७ ॥ इत्युपदेष्टा सज्जातो, ज्ञायतां मनसा हृदा । अथ शरणागतान् रक्षणम्-अथार्ताल्छरणापन्नान्प्रति वीरस्य सद्गुरोः। छमावस्था त्यागपर, निष्कामजीवनं तत. ॥ निर्वाह्यति ससारे, तपश्चर्याव्रतेन च ॥ २८८ ॥ आर्ता. सन्तापिताश्चान्यैर्यदा तच्छरणागताः । तेषामाव्हानमादौ हि, शृणोति च यथा र्थत ॥ २८९ ॥ तत्का ध्यानं तपश्चर्या, तेषां रक्षा कृताऽनिशम् । महतोऽसाध्यकष्टाच्च, सुरक्षयति तान् श्रमात् ॥ २९० ॥ स चर्मेन्द्रो हि शक्रस्य, ह्यपमानं विधाय वै । पलायतोऽशनिपाताद्वञ्चनाथं च तस्य हि ॥ २९१ ॥ . शरणं पादपद्मस्य, समागत्य खजीवनम् । शक्नोम्यहं न जेतुं तं, तेनेत्युक्तं यदा । प्रभु. । ततो रक्षितवॉस्तं च, वीरः सदयवान् जिनः ॥ २९२ ॥ एकदा ' मगधे देशे, मस्करीस गोशालकः । यदा तत्पृष्टगो जातो, वीक्ष्यमेकं तपखिनम् ॥२९३ ॥ परस्तु वृक्षशाखाग्रे, लम्वमानमध शिरः । कृत्वोर्ध्वपादं यश्चोग्रं, तपखपति नित्यश. ॥ २९४ ॥ तजटाजूटतो यूका, निस्सृत्य पतिता भुवि । तदा ता दयया युक्त , पुनः खकचमण्डले । स्थापयति च तं दृष्ट्वा, गोशालश्च प्रहस्य वै ॥ २९५ ॥ उवाच नेदृशो दृष्टो, यूकाशय्यातरस्तथा । इति दुष्टखभावेन, ह्यवज्ञा कृतवान्पुन. ॥ २९६ ॥ गळं प्रति च शाठ्यं वै, कुर्यादिति विचार्य च । कोपावेगसमाविष्टस्तपस्वी खतपोवलात् ॥ २९७ ॥ नेत्रद्वारेव प्रति त, तेजोंऽशतीक्ष्णरश्मयः। पातिता येन तडितो, यातनेवातिदु सहम् ॥ २९८ ॥ प्राप्य दु.ख ददाहायो, खरमन्देन प्राह च । शरणागतं च मा त्राहीत्येवं वाचं जगाद सः ॥ २९९ ॥ तदा पितामहश्वैवं, दयां कृत्वा खनेत्रतः । हिमवच्छीतला लेश्या, तस्योपरिप्रक्षिप्तवान् ॥३०० ॥ तमनाथ मृत्युपाशान्मुक्तवान् कृपया मुहुः । विभो! त्वं हि धन्यतरस्त्वदीयेयं कृपा मयि ॥३०१॥ न कृत्रिमा वास्तविकी, स्फुटं मे सुप्रतीयते । श्रीमद्भगवतश्चेदं, चरित्रं शिक्षणप्रदम् ॥ ३०२ ॥ प्रविष्टमिति तचित्ते, पटुकायप्रतिपालकम् । शंकटान्मोचनीयं च, प्रथम. चोपदेशनम् ॥३०३ ॥ कृतवाश्च स्वयं साक्षा•
मृत्युपाशानन कृत्रिमा १०२ ॥ प्रविम ॥ ३०३