________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३२७
॥ २२१॥ भवन्तं ज्ञायते शुद्धं, स्वर्गारोहणयोगत । पितुर्मातुः स्फोटकोचे, लवणक्षेपणै. सम ॥ २२२ ॥ भविष्यति न सन्देह, इति कृत्वा दया भवान् । मदीयकयनेनैव, समुषित्वा गृहे पुनः ॥ २२३ ॥ अब्दद्वयसुपर्यन्त, दर्शनार्थमुदारताम् । दर्शयेचेन्महान् देवानुग्रहः स्यान्मयि प्रभो! ॥ २२४ ॥ तथैव भगवान् वीर , कृतवान्नान्यथा क्वचित् । भ्रातु पूज्यतमस्यापि, चेच्छया वापि सम्मत ॥ २२५॥ त्यागोऽनुकूलगमनं, नोचितोऽथ निवृत्तित । तथापि भगवान् वीर , स्वयं च जगदीश्वर ॥ २२६ ॥ ज्येष्ठो भ्राता दर्शनेन, विनयेन च तोषित । तद्वच्च सुखिनः कृत्वा, ज्येष्ठभ्रातु. सुसेवनै ॥ २२७ ॥ पाठोऽपि पाठितस्तेन, वर्षद्वयमभूगृही । भ्रातुराज्ञानुरोधेन, दीक्षाऽपि नैव धारिता ॥ २२८ ॥ एवं सयमसकल्प, हित्वा निर्वाणदं ध्रुवम् । प्राशुकभोजी भूत्वा च, गृहमेवाश्रयत्पुन ॥ २२९ ॥ धन्योऽसि ! भगव॑स्त्वं हि, नाऽप्रसन्न. कृतोऽ. नुज । अत. पाठमिमं लोक , स्वयमाप विना श्रमम् ॥ २३०॥ भगवद्वीरवत्खस्य, भ्राता पितृसम स्मृत । इति ज्ञात्वा सेवया च, सुखिनं तं विधाय च ॥ २३१ ॥ सन्तुष्टत्वेन सस्थाप्यस्तथा मान्योऽनुजो मुहु । तेऽपि रक्ष्या. प्रयत्नेन, धर्मोऽयं व्यावहारिक ॥ २३२ ॥ तद्गार्हस्थ्ये च वैराग्यमष्टाविंशतिसख्यके । वयस्येव सुसम्पन्ने, पित्रो स्वर्गतयोस्तदा ॥ २३३ ॥ तदा वर्षद्वयं स्थित्वा, गृहेऽध्यात्मस्वरूपके। चिन्तनं योगिचर्याया , समारम्भोऽप्यकारि च ॥ २३४ ॥ तेनास्माद्योगतः सम्यग्वोधिता दीक्षणेप्सवः। दीक्षाधारणत. पूर्व, गृहिधर्म समभ्यसेत् ॥ २३५॥ विशेषतो योगचर्या, यया विशदया सदा । चर्यया च सुभाविन्या, स्यानिवृत्तिर्यथाक्रमम् ॥ २३६ ॥ इत्यं तस्या. स्वयं ज्ञानं, जायेत तदनन्तरम् । सहिष्णुतायास्त्यागस्य, भवेज्ज्ञानं तथा पुनः ॥ २३७ ॥ अद्यावधिकियज्जातमुदारोत्तीर्णता यदि । अभिप्रायोऽस्ति मे चाद्य, सच्चर्याया विपाकतः ॥ २३८ ॥ भूत्वा दृढतत पादौ, धर्तव्यस्साधुसाधने । न तु पूर्व ततश्चैवं, विज्ञानां गतिरीदृशी ॥ २३९ ॥ (३) राजनैतिक, शिक्षायाः, शिक्षको यत्र कालके । अमात्यनृपतीनां च, पुत्राणां भूभुजां पुन. ॥ २४०॥ यदाऽभूज्ज्ञानमेत्तद्धि, नरराजसिद्धार्थकात् । महिण्या त्रिश; लयाऽदार्श, स्वप्नश्चतुर्दशविधः ॥ २४१ ॥ यौवने सार्वभौमश्च, चक्रवर्ती भविष्यति । एतदृत्तान्तश्रवणाच्छ्रेणिकेन्दुप्रद्योतनौ ॥ २४२ ॥ दधिवाहनप्रभृतिराजपुत्रा समागता.। भगवद्वीरसेवायां, संलग्नाश्च मुहुर्मुहुः ॥ २४३ ॥, क्षत्रिया