________________
३२६
-
वीरस्तुतिः।' ',
.
द्दिष्टं, रस्नं नयप्रमाणकम् । तत्वनिक्षेफ्संज्ञं वै, गभीरत्त्वं महत्वकम् ।। २०१॥ परिपूर्ण तदाऽप्यासीद्यल्लघुत्वमहत्वयोः । चतुरस्रेण वै तद्वद्व्याख्याने लेखने तथा ॥ २०२ ॥ वर्णनं क्वचिदस्तीह, ज्ञेयमन्यद्विचारणात् । स्थालीपुलाकन्या. येन, प्रत्येकं लघुभावतः ॥ २०३ ॥ किञ्चिन्मुख्यत्वभावेन, दिग्दर्शनमतोऽकरोत् । निगद्यते पुनः स्पष्टं, भगवद्वीरखामिनः ॥ २०४ ॥ निर्वाणं परमार्थेन, सह व्यवहारिकी दशा । कियदुनतिरूपेण, तथा पुष्कलभावत. ॥ २०५ ।। आसीद्यतः सहस्रेषु, जगत्सम्बन्धमानतः। गार्हस्थ्यजीवनं तेषां, समुज्वल तयाऽस्ति चेत् ॥ २०६ ॥ तत्प्रमाणाङ्गभूतं हि, उपासकदशाङ्गके । सूत्रेऽपि विद्यते तावद्धीमता तत्र दृश्यताम् ॥ २०७ ॥ गृहाश्रमे वहुविधे, कार्यादर्शक रूपिणि । कुर्वन् परिणतं त्वासीत्खयं तच्च निशामय ॥ २०८ ॥ (१) 'वीरस्तु भगवान् प्रभु', पितरावभितः प्रति । पूर्व गर्भाशये मातुर्जनकस्य च सेवनम् ॥ कृत्वाऽथ दर्शनायैवं, ज्ञानानुभवतस्तथा ॥ २०९ ॥ स्वयं प्रतिज्ञा कृतवान् । यावन्मे जननी पिता। जीवतस्तावदत्यन्तमहद्दीक्षा सुसंयमम् । योगाभ्यास न चाहं वै, स्वीकरोमि कदापि हि ॥ २१० ॥ यतो मे जनको माता, मोहदृष्ट्याऽ. नुरागवान् । न तु समतया दृष्ट्या, इति चिन्तापरोऽभवत् ॥ यतोऽहमनयोस्सत्वे, संन्यासं संयम व्रतम् ॥ २११ ॥ चरिष्यामि प्रसगेऽपि, न हेयोऽप्यनयोर्नयः। हृदये पुनराघातः, स्यान्महानिति मे मति ॥ २१२ ॥ दु साध्यं च भवेत्तस्मात्सहनं चेतसा कुतः । जीवनस्याऽनया रीत्या,, ससारसार्वदेशिकी ॥ २१३ ॥ घटनयाऽनया शिक्षा लभ्यते नो निशामय । पित्रोराज्ञा विना तद्वदौदासीन्यं न कर्हिचित् ॥ २१४ ॥ कोऽपि त्यक्त्वा गृहारम्भ, मुनिचर्या न धारयेत् । घटनयाऽनया तेषा, यदाज्ञापालनं तयो ॥ २१५॥ विज्ञायावश्यकत्वेन, सेवायाश्च कियत्फलम् । संसाध्य दर्शनं तस्य, मौलिकं च विभावयेत् ॥ २१६ ॥ तीर्थकरोऽपि भगवान् , प्रथमे जीवनेऽपि यत् । सेवाधर्मस्थापन वे, कुरुते विश्वभावनः ॥ २१७ ॥ कथ्यतां कि च वीरस्य, स्वामिनश्चेदमद्भुतम् । आदर्शरूपं सेवायाः, पितृणा किमनल्पकम् ॥ २१८॥ महत्वं विषयश्चास्ति, सूक्ष्मदृष्ट्याऽवलोक्यताम् । प्रतिज्येष्ठं भ्रातर च, अत्युग्रोदारशीलता ॥ २१९ ॥ नन्दीवर्धननामानं, भ्रातरं भगवान् रहः। एकस्मिन् दिवसेऽवोचन् , मदीयोsमिग्रहोऽधुना । समाप्तोऽभूयतवाद्य, भवदाज्ञा प्रगृह्य च ॥ २२० ॥ दीक्षितेक्षा करोम्यद्य, तदा ज्येष्ठोऽब्रवीद्वचः । निर्मोहं च प्रभुं ज्ञात्वा, खयं तु मोहूपीडित.