________________
३२४
, वीरस्तुतिः।
प्राप्यते नाऽपि गौणेन, लभ्यते खादनं ततः ॥ १५८ ॥ तदेदमपि ज्ञातव्यं, गौणतोपाधिकारणम् । पुद्गलस्यैव सम्बन्धाज्जायते न च वस्तुतः ॥ १५९ ॥ सच्चित्सुखे तु गौणत्वमेतदर्थमवेक्ष्यते । यदानादिस्वभावेन, वहिरकत्वमेव हि अन्तरगत्वदृष्ट्या तु, केवलानन्दरूपकः ॥ १६० ॥ आत्मानन्तकार्मणवर्गणा सन्धितो भवेत् । 'गुणविकाराः पर्याया.' पर्यायेण समन्वितः ॥ १६१॥ कार्मणवस्तु सर्वत्र, सर्वदा परिवर्तते । परिवर्तनं पर साक्षानानुकूलमिदं भवेत् ॥१६२ ॥ तत्रेष्टाऽनिष्टयोर्योगश्चान्योऽन्यं मिश्रितः स्थितः । प्रवृत्तरात्मन्यतः संविभावादेव दुखकः ॥ १६३ ॥ सम्वन्धवञ्चकाभावानिवृत्तिः खस्य भावना। कार्य करोति सर्वत्र, ज्ञेयं सर्व विचारतः ॥ १६४ ॥ सच्चिदानन्दकन्दस्य, सत्तायाश्चेति वोधनम् । सुगमत्वेन. ससिद्धेद्विषयेऽखिलभ्रान्तिता ॥ १६५ ॥ अनुमानापमानस्य, करणं जायते ततः। परिणामस्य यस्यास्ति, निग्रहत्वं ततः स्फुटम् ॥ १६६ ॥ अतो यस्मिँश्च कार्मणवर्गणानामवाधतः । अत्यन्ताभाव एव स्थाद्विशुद्धं भगवत्पदम् ।। १६७ ॥ लभ्यते तद्धि परमं, नान्यथा कोटियनत.। परं यत्र नृदेहेन, सहितो भगवत्यपि ॥ १६८ ॥ चतुष्टयमनन्तं च, भाति तद्भगवत्पदम् । अर्थान्सर्वानतीतादीन्, ज्ञातव्योऽवश्यमेव च ॥ १६९ ॥ यस्मिन्नैश्वर्यवीर्ये च, यशो धर्मश्च ज्ञानकम् । श्रीर्वैराग्य तथा मोक्ष, इमे षट्संख्यका गुणाः ॥ १७० ॥ समुदायस्य शास्त्रेपु, 'भगसंज्ञा' प्रकीर्तिता। भगवच्छन्दकस्याऽस्य, लक्षणं समुदाहृतम् ॥ १७१ ॥ कुण्डिनेशनरेशस्य, सिद्धार्थनन्दनेन च । त्रिशलाइजवीरेण, त्रिजगहुरुणा मुहुः॥१७२ ॥ सम्पूर्णरीत्या विज्ञातस्तेन तत्रास्ति लक्षणम् । इति विवेचनेनैव "वीरस्तु भगवान् खयम्" ॥ १७३ ॥ इत्यस्याक्षरशश्वार्थो, भविष्यति समर्थनम् । निरूपणं तथा तस्य, समेष्यति विचारतः ॥१७४॥ "ऐश्वर्यस्य समग्रस्य" इत्यस्यार्योऽनुकूलतः। भगवद्वीरदेवस्य, जन्मकालात्ततो मुहु ॥ १७५॥ निर्वाणपदप्राप्यन्तं, जन्मकालादनुक्रमात् । निखिलस्येतिहासस्य, प्रत्येकं लघुभावतः ॥ १७६ ।। सिद्धोऽस्तीति महावीरो, भगवानादिपूरुषः। सम्प्राप्य पूर्णरूपेण, चतुष्टयमनन्तकम् ॥ १७७॥ अनन्तशक्तियोगेन, सर्वेश्वयं तथाप्तवान् । अनन्ततेजस्तद्वन्ध, प्रथमयाऽवस्थया मुदा ॥ १७८ ॥ सकलैश्वर्य्यखत्वेन, युक्तश्चासीनिशामय । स्वर्गजातकपर्यायपूर्ति कृत्वाऽथ नाकत. ॥१७९ ॥ स्वर्गात्पूर्णश्च देवायु.,. शरीरं वैक्रिये तथा । एवमाहारसम्पूर्ण, कृत्वा राज्या, सुकुक्षितः