________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३१७
नियमं चैव, ज्ञायतामित्यत पुनः । सर्व मित्रवदापश्येदात्मवत्सर्वप्राणिषु ।। १३२ ॥ ज्ञानी जनो निजात्मान, जीवात्मान तथैव च । एकीन भावेन सम्पश्येदिति प्राह श्रुतिर्मुहुः ॥ १३३ ॥ देहमीमांसकानां च, अनेकान्तिकदृष्टित.। औदारिकं तेजस च, कार्मणं यच कथ्यते ॥ १३४ ॥ शरीर चैव वेदान्तमतालम्बनतत्परा । स्थूलं सूक्ष्मं कारण च, त्रिविधं वर्णयन्ति च ॥ १३५ ॥ ज्ञानविज्ञानयोर्यच, कारणं प्रोच्यते बुध. । जैना यज्जाग्रतं खप्नं, तुरीय प्रवदन्ति च ॥ १३६ ॥ वेदान्तेऽपि तथैवास्ति, त्रिधाऽवस्था खरूपतः । तथा संसृतिमीमांसाज्ञानज्ञाः प्रवदन्ति च ॥ १३७ ॥ मनस परिणामेन, वन्धो मोक्षो हि जायते। सृष्टिः सङ्कल्पतो शेया, वेदान्तमतशालिन ॥ १३८ ॥ मानसिकं तु जैनानां, *परिणाममथाऽपि वा । अध्यवसाय च वेदान्ते, सकल्पं चैकमेव हि ॥ १३९ ॥ प्रत्यक्षं दृश्यते चैक, साधनाभेदभावत । साध्यश्चात्मा हि प्रत्यक्षं, ज्ञायतेऽमेद एव हि ॥ १४० ॥ अनुभवेऽप्येवमेवं, प्रत्येकं च मुमुक्षुभिः । जीवात्मनि प्रेमभावः, स्थापनीयं सदैव हि ॥ १४१ ॥ सर्वावस्थासु सर्वत्र, ममैवास्ति स्वरूपकम् । पठित्वेदममेदेन, प्रेमैव स्थाप्यतां सदा ॥ १४२ ॥ एतत्प्रमाणतश्चात्मानन्दाप्तेः साधनानि च । कुर्वन्समन्वयं सोमेदभावेन सर्वदा ॥ १४३ ॥ चलँस्तिष्ठन्नुपविशन्पिवन्खादन्खसन्खपन् । सर्वक्रियासु सर्वत्र, शुद्धश्चैतन्यरूपवान् ॥ १४४ ॥ अहमात्मा चेदृशी वै, भावना स्थाप्यता मुहु । न चैतावद्धि विज्ञान, भूतमात्रं मदीयकम् ॥ १४५ ॥ खरूप प्रत्युतैव च, ज्ञातव्य च विशेषतः। ज्ञातव्यं प्रतितान्भक्त्या, प्रेमभावप्रवर्षणम् ॥ १४६ ॥ कर्तव्यमित्यं ये चैव, पुरुषा जगतीतले । स्थापयन्त्यमेदभाव, वीतरागास्त एव हि ॥ १४७ ॥ पूर्णाध कृतकृत्याश्च, ते सन्ति भुवि चोत्तमा । वीतरागो देवदेवो, महावीर प्रतापवान् ॥ १४८ ॥ धन्योऽस्ति योहि निष्पक्षपातेन सुन्दरो मुहु । मार्गोऽमेदात्मको भावो, दर्शितो जनतामुढे ॥ १४९ ॥ विनि स्वार्थतया यो हि, प्रकटं कृतवान्मुहु । सत्यखरूप एवास्ति, स एव परतः परः। खतन्त्रत्वस्य यश्वास्ति, द्वारमेतत्प्रधार्य्यताम् ॥ १५०॥ भावार्थ:-जो पुरुष केवल आत्मानन्दमे ही अहर्निश रमण करते हैं, उनको त्रिकाल वन्दना है। इस
"परिणामे वधो, परिणामे मोक्खो।