________________
वीरस्तुतिः ।
आकाशादिस्थले यच्च, ज्ञानं मिथ्यामयं च तत् ॥ ११२ ॥ प्रणामिमार्गधयिणो, देवचन्द्रादयो मुहु । खसम्प्रदायके नित्यं, निजानन्दमतं जगुः ॥ ११३ ॥ दृष्ट्याऽनया दर्शनेन, भारतेऽत्र सुधर्मिणाम् । जनानामात्मतत्वस्य, सिद्धान्तप्राप्तये मुदा ॥ ११४ ॥ माहम्मदोऽपि वदति, भवेऽस्मिन्यत्प्रतीयते ।
चैतन्यमेव तत्सर्व, नान्यत्किचिद्विभाव्यते ॥ ११५ ॥ खुदा निरजन. साक्षी, निराकारोऽतिशक्तिमान् । तेजोमयो ह्यनन्तश्च, सर्वज्ञ इति निश्चयः ॥ ११६ ॥ मोमिनाख्यश्च सततं, कृपालु खसमीपगम् । पश्यत्येव खुदाऽहं च, खुदाहार्थो निजात्मनः ॥ ११७ ॥ जिसिसक्राइष्टमतं, तद्वचतुर्थाकाशकापरि । विभुर्विराजते स हि, भक्तात्मा परिकीर्तित. ॥ ११८ ॥ भक्ताश्च तं प्रपश्यन्ति, तथा भूमण्डलेऽखिले । विख्यातकीर्तिव॑द्धोऽपि, स्पष्ट समुक्तवानिति ॥ ११९ ॥ "प्रेमैवात्मा" जगत्यस्मिन्, प्रत्येक प्राणिनो मुदे । स्थापनीय च प्रेमैवामेदभावसमाश्रयैः ॥ १२०॥ तत्वज्ञानस्य दृष्ट्या तु, दर्शनेन प्रतीयते । जैनो वेदान्तयोगौ च, साख्यवौद्धौ तथा पुन. ॥ १२१ ॥ अनुभवं चैकतायाः, कुर्वन्तीति विभावय । नेतुं वै चैकतायास्तु, तथानन्दविवृद्धये ॥ १२२ ॥ भिन्नं च माधनं कतुं, मिन्नधर्मस्तथा पुनः । भिन्नो देशस्तथा कालो, विभिन्ना पद्धति पुन ॥ १२३ ॥ मीमासकैर्विनिर्दिष्टा, विभिन्नं सर्वसाधनम् । अत एव वहिदृष्ट्या, ज्ञायते मतकर्मणाम् ॥ १२४ ॥ मेदामेदक्रिया सर्वा, तथापि तक्रियान्वयम् । कुर्यात्त्वमेदभावं च, भजते प्रेमभावतः ॥ १२५ ॥ जैनाश्चाहुमहाव्रतं, वौद्धास्तत्पञ्चशीलकम् । *योगे पञ्चात्मक प्राह, यमं शमदमादिकम् ॥ १२६ ॥ वेदान्ते प्रवर्तनीयो, नियमोऽपि महात्मभिः । प्रत्येकं धर्मनीतिहि, दयापरोपकारिता ॥ १२७ ॥ प्रेमादिसामान्यमिति, सर्वसामान्य निर्णये । नियमोऽपि गृहस्थानां, तथा धर्मे समानता ॥ १२८॥ उपयोगितोपभोगश्च, कुर्वन्तीति निसाम्यताम् । वैराग्यलक्षणं तद्वत्समत्वं तुल्यमेव च ॥ १२९ ॥ सर्वत्र प्राप्य चैकमेव मिति सन्धार्यता मुहु । ज्ञानिना वर्तने दृध्या, जैनानां वर्तनं तथा ॥ १३० ॥ सर्वप्राणिभिरित्येवं, ममं भावसमानता । स्थापनीया न न्यूनाधिभवितव्या नियमस्तथा ॥ १३१ ॥ ब्रिवीति
* "शमदमोपरतितितिक्षाश्रद्धादयः समाधानाः" "मित्तिमे सव्व. भूएसु" "आत्मवत्सर्वभूतेपु" मित्रस्याहं चक्षुपा सर्वाणि भूतानि समीक्षे ।। यजुर्वेद १८-३ ॥