________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३१५. चार्यसिद्धान्ते, स्थितिरेषा सनातनी ॥ ९४ ॥ निर्दोषः पूर्णगुणवानात्मानन्दगुणाश्रित.। खतन्त्रः सर्ववित्साक्षी, शरीरगुणवर्जित. ॥ ९५ ॥ तथात्मा करपादादिमुखादीन्द्रियवर्जितः । स चावयवादिभेदेन, कल्पनाकरणेऽपि च ॥ ९६ ॥ सदानन्दमयो नित्यो, वासनारहितो विभुः । ग्लोकोक्तात्मतत्वस्य, कल्पनावयवस्य च ॥ ९७ ॥ केवलानन्दरूपश्च, नास्त्यत्र च विकल्पनम् । जन्ममृत्युजरादिभ्यो, व्यतिरिक्तश्च सर्वदा ॥ ९८ ॥ जन्मोत्पत्तिप्रभङ्गादिमेदशन्योऽ खि निर्मल. । जन्मादित्रिविधो मेदस्तद्भिन्नं चात्मरूपकम् ॥ ९९ ॥ वल्लमाचार्यस्य मते, हेयं तत्तत्वदर्शिभि । सज्जैनमतसिद्धान्ते, नात्मा कर्तेति निश्चयः (निश्वयनयेनेत्याशय ) ॥ १०० ॥ साङ्ख्यशास्त्रविदश्वाह, *कर्ताऽहकार एव च ।। न कर्तृत्वं चात्मनश्च, निर्लेपत्वादविक्रियात् ॥ १०१॥ किन्तु पुरुषोऽकर्तेव, प्रवदन्ति मनीषिणः। ईश्वर सर्वविन्नित्यो, रागद्वेषादिवर्जित. ॥ १०२ ॥ ज्ञानविज्ञानसम्पन्न, इत्येवं वर्णयन्ति च । जैनाश्चत्यं योगशास्त्रं, क्लेिशकर्मविपाकत• ॥ १०३ ॥ माशयेनापरामृष्टश्चेश्वरः पुरुषोत्तम । रागद्वेषादयो भावा, न स्पृशन्ति सदीश्वरम् ॥ १०४॥ सर्वज्ञत्वमीश्वरे चास्ति, आत्मा चैतन्यरूपवान् । एवं निगद्यते शास्त्रे, चानन्तो निष्कलोऽव्यय. ॥ १०५॥, निर्विवाद: सदात्मास्ति, चैतन्यगुण• संयुत. । निष्क्रियो निष्कलस्तद्वद्ध्यापको गुणत• पृथक् ॥ १०६ ॥ तन्माया जगता की, चिच्छकिर्गुणविग्रहा । सत्यज्ञानमनन्तश्च, ब्रह्मेति श्रुतिसम्मतम् ॥ १०७ ॥ ब्रह्मखरूपे पापपुण्ये, न स्तो दुखसुखे तथा । नास्ति किञ्चिजगत्यस्मिन्व्यापकत्वं विना स्थितम् ॥ १०८॥ सच्चिदानन्दरूपेण, शिवोऽहं नेतरः कचित् । केवलज्ञानसम्पन्नोऽत्रैव मोक्षानुभावक ॥ १०९ ॥ इति जैनमतं शश्वजागर्ति प्रभुरीश्वरः । इदमेव मतं ज्ञेय, सहजानन्दस्वामिनः ॥ ११० ॥ अक्षरस्थानमात्मैव, खयं चाक्षयरूपवान् । आत्मानं च विजानीयादक्षरं परम परम् ॥ १११ ॥ तज्ज्ञानं सत्यमित्युक्तं, तदन्यत्सकलं मुधा ।
* "अहवार. कर्ता न पुरुष इति साख्यः"। "फ्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर ।" "तत्र सर्वज्ञवीजम् ।" ६ सत्यं ज्ञानमनन्त्र वह्य । न पापं न पुण्यं न दुःखं सुखं न, चिदानन्दरूपं शिवोऽई शिवोऽहम् ॥