________________
३१४
।
वीरस्तुतिः।
.
॥ ७६ ॥ आर्हतैरुच्यते जन्ममृत्युरूपा तु संस्मृतिः । कर्मद्वारा प्रचलति, तत्र ., कर्म जडं स्मृतम् ॥ ७७ ॥ कर्मणोऽस्य नियन्तात्माऽस्तीत्येवं सर्वसम्मतम् । । अधिष्ठानं कर्मजन्यं, सृष्टेरात्माऽयमस्ति च ॥ ७८ ॥ वेदान्तेनोच्यते मायाः द्वारं जन्मादिसम्मतम् । आत्मरूपेश्वरश्चास्यानियामकमुदीर्य्यते ॥ ७९ ॥ स्याद्वादिनो वदन्त्येवं, कर्मोपाधौ लयं गते। आत्माऽयं.जन्ममरणवन्धनान्मुच्यते- . तराम् ॥८० ॥ वेदान्तकान्तसिद्धान्तवागत्रेत्थं प्रवर्तते । मायोपाधी लयं । प्राप्ते, भवादात्मा विमुच्यते॥ ८१॥ जैनेनाऽ'पुणरावित्ती'त्युक्तेत्थमभिधीयते। भवत्यपुनरावृत्तिर्भवे मुक्तस्य चात्मनः ॥ वेदान्तोऽभिदधात्यात्मा, पुनरावर्तते न ; हि । गीतायां कृष्णचन्द्रेण, प्रोक्तमित्यं महात्मना ॥ "यद्गत्वा न निवर्तन्ते, . तद्धाम परमं मम" ॥ ८२ ॥ “एगे आये" ति वाक्येन, जैनस्त्वित्यं प्रभाषते। 'एकोऽस्त्यात्मा'-गुण-द्रव्य-पर्यायापेक्षया खलु ॥ "एकोऽहमिति” वेदान्तोऽ प्यत्रार्थे कृतसम्मति. ॥ ८३ ॥ जैनाना च मते *तर्को, नात्मान वेत्ति तत्त्वतः । तथा धीश्चात्मरूपं हि, नाप्तुं शक्नोति वास्तवम् ॥ ८४ ॥ यतो निवतते वाणी, सहैव मनसा मुहु । जैना वदन्ति चाखण्डं, परिपूर्णतमं परम् । ॥ ८५ ॥ जानयन्ति ये च तद्वत्कैवल्यं प्राप्नुवन्ति ते । वेदान्तिनोऽखिले चास्मिन्भवे ब्रह्म सनातनम् ॥ ८६ ॥ व्यापकं सच्चिदानन्दखरूपं वर्णयन्ति । च । शास्त्रेऽच्छेद्यममेद्य च, तथाऽदास्यमशोष्यकम् ॥ ८७ ॥ अवध्यमस्मिजगति, नात्मा नैव प्रदृश्यते। कदाचिच्चर्मचक्षुभ्यां, मृत्युजन्म विवर्जित ॥ ८८ ॥ सच्चिदानन्दरूपश्च, जीवात्मा हि खभावतः । क्षित्याद्याकाशभूतेषु, नक्षत्रेध्वपि सर्वत. ॥ ८९ ॥ परिपूर्णतमस्तद्वच्चैतन्यगुणसयुतः। जीवात्मा चैतनारूपसच्चिदानन्दविग्रहः ॥ ९० ॥ न तद्रितं किञ्चिदपि, स्थानं चास्ति भवे क्वचित् । चैतन्याश्रयजीवस्य, दृष्टया सर्व चिदात्मकम् ॥ ९१ ॥ खयमात्मा च सर्वज्ञ, इति वेदान्तिनोऽब्रुवन् । तथा जैना वदन्तीत्थमात्माऽनन्तश्च ज्ञानयुक् ॥ ९२ ॥ सनातनं व्यापकं च, ब्रह्मवेदान्तिनो विदुः । खयं शुद्धो विशुद्धश्च, निजात्मानन्दरूपभाक् ॥ ९३ ॥ सर्वज्ञ. सर्वदर्शीति, जैनाचैवं वदन्त्यद । वल्लभा
*."तका जत्थ ण विज्जइ, मह तत्व ण गाहिता।" + “यतो वाचो निव तन्ते, अप्राप्य मनसा सह"। "कैवल्यपदमस्तु ते"। 'निर्दोषपूर्णगुणविग्रह आत्मतत्रो, निश्चेतनात्मकशरीरगुणैश्च हीन । आनन्दमात्रकरपादमुखोदरादि, सर्वत्र च त्रिविधभेदविवर्जितात्मा ॥ १॥