________________
संस्कृतटीका-हिन्दी-गुर्जरभोषान्तरसहिता २७३ बलक्षेमदा। क्षणरुचिरुचिरोरुचञ्चत्सटासंकटोत्कृष्टकण्ठोद्भटे संस्थिते भव्यलोकं त्वमम्बाम्बिके, परमव सुतरां गजारावसन्ना शितारातिमा राजिते भासिनीहारताराबलक्षेऽमदा ॥ ४ ॥
वीरस्तवः त्रिजगदीक्षण ! केसरिलक्षण! क्षणमपि प्रभुवीर ! मनोगिरौ । गुणगणान्मम माम विरज्यतामुदयिता दयितादयि तावकात् ॥१॥ भृशमदभ्रमदभ्रमदम्रमप्रथमनः सुमनः सुमनः स्तुतः, असुमतः सुमतः सुमतोऽवदातपरमः परमश्चरमो जिनः ॥ १॥ चलनकोटिविघट्टनचञ्चलीकृतसुराचल ! वीर ! जगद्गुरो! त्रिभुवनाशिवनाशविधौ जिनप्रभवते भवते भगवन् ! नमः ॥१॥ जयति यः सुरसङ्गममानहत् , जगति वीरजिनो जगतीसुहृत् । भवतु भीतिहरो मम सर्वदा, स शरणं शरणं गुणसम्पदाम् ॥१॥
.
.
महानन्दशुद्धाश्रितं देवदेवं, महीनाथसिद्धार्थपुत्रं पवित्रम् । यथाकामितं दत्तवार्षिक्यदान, त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ।। चतुष्षष्ठीदेवेन्द्रयोगीन्द्रवन्ध, सुधाशालिसंशुद्धवाक्यं वरेण्यम् । दयासागरं शुद्धसन्मार्गयानं, त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ॥ अनन्तोत्तरज्ञानचारित्रलीनं, जरारोगसम्मोहसन्तापहीनम् । क्षणोद्भूतनिर्मूलमायावितानं, त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ।। शमखादपाथोधिसंसर्गसक्तं, सदा कर्ममर्मप्रपञ्चप्रमुक्तम् । प्रचण्डप्रतापेन भाखत्समानं, त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ।। मनोहारिकल्याणवर्ण विशालं, विदीर्णान्तरारिप्रणालिं कृपालम् । गभीरं विशालैर्गुणैर्वर्धमातं, त्रिकालं स्तुवे श्रीजिनं वर्धमानम् ।।
वीर. १८