________________
२३८
वीरस्तुतिः। .. जातोऽत्र विषये, भुवि ख्याते सिन्धोर्विषमविषये कोऽपि न मुनिः ॥ ८॥ जिनाज्ञासक्तानामपि च न गतः कोऽपि *सुमुनिः, सहस्राब्देनापि विहरणमभूद्यत्र न यतेः । मुनेः पुष्पेन्दोश्च गमनमभवद्यत्र प्रथमं, ततः पूर्वनीत्वा दिशमपि सुडोल्यां च गुरुणा ॥ ९॥ विहारप्रदेशेऽपि गत्वा च पूर्व, कृता धर्मशिक्षा विशेषेण तत्र । अयं चातिरम्यो विहारप्रदेशो, महावीरदेवस्य जन्मास्ति यत्र ॥१०॥ अयं सुप्रदेशोऽधुना हासयुक्तः, सदा राक्षसप्रायजातश्च यस्मात् । महाकालिकामंदिरे यत्र हिंसा, सदा जायते प्राणिनां कोटिशश्च ॥११॥ शरांकांकचन्द्रे मिते वत्सरेऽस्मिन्महावीरतीर्थकरस्य जयन्त्याम् । नदीदीर्घदामोदराख्या तटे च, समागत्य पुप्पेन्दसंज्ञो हि मिक्षः ॥१२॥
अहिंसोपदेशं चिलाकारिग्रामे, प्रदत्वा पशूनां त्रयं यूपमुग्रम् , वधस्थानमुत्पाट्य यः क्षिप्तवांश्च, सदा वा प्रचारः प्रशस्योऽस्ति यस्य सदैवं बहून्यन्यकार्य विधाय, प्रदेशं भ्रमन्नन्ततो याति नूनम् ॥१३॥ यश्चात्र प्रथमं सुरेतरमये देशे शुभे वत्सरे, वन्ाकांकविधौ मिते च अरियाग्रामे कृतं भिक्षुणा । चातुरमास्यकृतं ततश्च प्रथमं 'बंगे' गुरो. सेवकः, वेदांकांकविधौ समे च गुरुणा साकं गतः पुष्पकः ॥ १४ ॥ सर्वानन्दमये शुभे च नगरे 'कालीयकत्ता'ऽभिधे, यत्राष्टादशसंख्य क्राश्च शतका जैना मता श्रावका । चातुरमास्यकृतं महच्च सुखतो श्राद्धा मुनेः सेवकाः, यत्रास्ते कलिकत्तपत्तनवरा वीथी सु पोलोक' की ॥ १५ ॥ सन्ति स्थानकवासिनश्च बहव श्वेताम्बराः श्रावकाः, ये कुर्वति समाजकार्यमथवा यस्याधिपाः प्रेमिणः । सङ्केतं मुनिनेत्र
* शिक्षा कर्तुमिति शेप.। 'चलकरी' इति भापा।