________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २३९ समिततरं श्रेष्ठा महान्तो मुहुर्जेनाराध्यमुनिष्वपि व्रतधरेष्वेवं गुणाः सन्ति च,॥ १६ ॥ जैनाः सघसुकार्यकारिणी सभा यत्रास्ति नित्य मुहुः । सभ्या श्रावककेऽपि सन्ति सततं नेत्रेन्दुसख्या गुणाः ॥ अत्रैव सुनयः त्रयो नव मिते मासे निवासोऽभवत् । एवं चेन्मनुजो नवैव वितते गर्भ मुहुर्जायते ॥ १७ ॥ सम्प्रदायस्य वादस्य पक्षपातस्य बन्धनम् । त्रोटयित्वा खयं जातः, खतन्त्रश्च सदा मुनिः ॥ १८ ॥ ज्ञातपुत्रमहावीरजैनसघे व्यवस्थितः । नीरक्षीरविभागार्हः, स्वयं तन्मयतां ययौ ॥ १९॥ महावीरस्य च प्रमोः, स्तुतेष्टीका कृता वरा । दिवसे दीपमालायां, याता पूर्णा च संवति ॥ २० ॥ कलिकाताख्यनगरे, वेदांकनवचन्द्रके। श्रीपुष्पचन्द्रमुनिना, शिवाक्षिरसांगुष्ठतः ॥ २१ ॥ मुनिभि. प्रार्थ्यते शश्चन्महावीरस्य शासने । खयं तन्मुनिचर्यायां, मौनमाश्रित्य तिष्ठति । भवान् परिग्रहत्यागी, यद्यस्ति कथमीदृशः ॥ २२ ॥ सम्प्रदायप्रवादस्य, परिग्रहरतः कथम् । सम्प्रदायप्रवादस्य, पक्षं कृत्वा पुन, पुन. ॥ २३ ॥ भवन्तः स्वसमाजेन सह यान्ति रसातलम् । भवन्तोऽनन्तससारपापसृष्टिं कृता कथम् ? वर्धयित्वा च खस्यैव पतनं कथमिच्छतः ॥ २४ ॥
भुजङ्गप्रयातच्छन्दः । यदा जीवहिंसापरित्यागिनश्चेद्भवन्तस्तदा सम्प्रदायस्य जाले। . जनान् सर्वतश्चात्र घोरे निवध्य, कथ कुर्वते ज्ञानचारित्रनाशम् ॥२५॥ अनेनाथ देहेष्वनन्तानुवन्धि-कषायस्य बन्ध कृत तत्र नूनम् । - दृढ शृंखलावद्धजीवा भवन्तः, पतिष्यन्ति चैवं द्रुतं शर्करादौ ॥२६॥ विपक्षानुरोधे महामोह एव, समानः स्त्रिया सर्वथा त्यागयोग्यः । सदा सेवनेनास्य नाशं व्रजन्ति, भवद्ब्रह्मचर्यादिकं शश्वदन ॥ २७ ॥