________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २३७
' प्रशस्तिः । - महावीरो देवो विदितभवकीर्तिर्जिनवरः, सदा भव्याऽऽधारो निजशरणगैर्वन्धचरणः । मुदाऽन्त्यो यस्तीर्थकर इति पदाब्योऽस्ति नितरां,वचस्तत्वे तस्य प्रतिदिवसमेवार्पितमनाः ॥१॥ फकीरेन्दुर्मिक्षुर्गुरुरिति तमःस्तोमतरणिः, सुपुष्पस्तच्छिप्यो विनययुतभिक्षुर्विधिरभूत् । द्विपञ्चाकेन्द्वब्दे जननमभवद्यस्य कुतले, गृहीता सद्दीक्षा भवभयहराऽस्मिंश्च व्रतितः ॥ २॥ रसाष्टाकेन्द्वब्दे सकलमुनिवृन्देऽतिविशदा, स चेदानीं नाम्ना कुसुममुनिदासो शिवरुचि । 'हिमागारे देशे गिरिषु बहुशीतेषु विहरन् , गतो यो यत्रास्ते विविधतरुवृन्दोऽखि विमलः ॥ ३ ॥ प्रसिद्ध राज्ये च जिनमतधराव्येन सहिते, समेतो 'नादोने' गुरुभिरतिपूते निवसता । कृतं चातुर्मास्य कलिकलुषतापौघशमनं, समाचीणे यत्राऽखिलजिनपथाऽऽराधनपरम् ।। ४ ॥ सुमित्र'स्थादौ हि हितकरसुदीक्षाऽपि नितरां, सदैवं पुष्पेन्दुर्विचरति सुमित्रेण सहितः । जिनाज्ञासंसक्तः परहितकरः साधुनिरतः ॥ स एवाऽयं भिक्षुः *सकलदलदोपेन रहितः ॥ ५॥ हिमाच्छादिते सुप्रदेशे च भ्राम्यन् , शिमाला (शिमला) कुलुक्कादिदेशान्तरस्थ. । दृगाकानवचन्द्रकाव्दे प्रकाश । मुहुर्दृष्टवान् भूरिशोमां नगस्थाम् ॥ ६॥ सहस्रकोशान्तं पदगमनशीलो मुनिवरः, सुपुष्पेन्दुर्भिक्षुः प्रथमगमनं यत्र कृतवान् । सुमित्रेण खेन गुरुचरणभृङ्गेन सहितः, सुशिष्येणागम्यं नगरमभिगम्य प्रविततम् ॥ ७ ॥ 'कराची' सुस्थानं निखिलपशुरक्षां च विदधन्, व्यागारं कृत्वा सकलजनश्राद्धैः सह मुदा । निहालेन्दुर्यत्राधिपतिरपि
९२
* सम्प्रदाय-पक्षवादादिना रहित.। । कुल्लु इति भाषायाम्