________________
२०८
वीरस्तुतिः। ... शूकरी शंवरी वानरी धीवरी, रोहिणी मंडली शोकिनी क्लेशिनी । दुर्भगा निस्सुता निर्धवा निर्धना, शर्वरीभोजिनी जायते भामिनी ॥ , वान्धवैरंचिता देहजैर्वन्दिता, भूषणैर्मूषिता व्याधिभिर्वर्जिता। । श्रीमती हीमती धीमती धर्मिणी, वासरे जायते भुक्तितः शर्मणी ॥
रात्रिभोजनविमोचिनो गुणा, ये भवन्ति भवभागिनां परे। 1, तानपास्य जिननाथमीशते, वक्तुमत्र न परे जगत्रये ॥ ।
इत्यनेकशास्त्रसम्मतरात्रिभोजनं परिहेयमिति भावः । उपधानं तपः, प्रणयं च प्रकर्षण नयं न्यायं "उपधान विषे गण्डौ प्रणयेऽपि नपुंसकमिति मेदिनी" । तद्विद्यतेऽस्यासावुपधानवान् , तपोनिष्टप्तदेहो नयवानपि, दुःखक्षयार्थ दुःखप्रणाशनार्थमारं प्रान्तभागं, पारं परं लोकं "पारं परतटे प्रान्ते इति मेदिनी"। "पारं मुत्ति इत्यमिधानप्पदीपिका बौद्धकोषः" । ऐहलोकं पारलोकं, अथवाऽऽरं मनुष्यलोकं पारं दूरवर्ति तीरं 'पारं परम्हि, तीरम्हि' इति अभिधानप्प०" । अथवा नरकादिकं खरूपतस्तत्प्रापणहेतुं ततश्च ज्ञात्वा सर्वमेव तत् , प्रमुभगवान् सर्ववारं बहुशो निवारितवान् त्यक्तवान् एतदुक्तं कथितं प्राणातिपातादिकं निषेधादिकं खतोऽनुष्ठाय परांश्च-स्थापितवान् , नहि खतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः खयमधर्मे स्थितः पराञ्जनान्धर्मे स्थापयितुमसमर्थः । स्तुतिकृतोक्तमिति । "ब्रुवाणोऽपि न्यायं खवचनविरुद्धं व्यवहरन्, परं नालं कश्चिद्दमयितुमदान्तं खयमिति । भवानिश्चित्यैवं मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः" ॥ २८॥
अन्वयार्थ-[से ] उस [उवहाणवं] तपखी [प्रभु] भगवान् महावीरने [दुक्खक्खयट्टयाए] आठ प्रकारके कर्मरूपी दुखोंको दूर करनेकेलिए