________________
२०४
वीरस्तुतिः।
पुनश्च-"दिवसस्याष्टमे भागे, मन्दीभूते दिवाकरे। . . ___ नक्तं तु तद्विजानीयान्न नक्तं निशि भोजनम् ॥" . "देवैस्तु भुक्तं पूर्वान्हे, मध्यान्हे ऋषिभिस्तथा । . '
अपराहे च पितृभिः, सायान्हे दैत्यदानवैः ॥" , "सन्ध्यायां यक्षरक्षोमिः, सदा भुक्तं कुलोद्वह। ..
सर्बवेलां व्यतिक्रम्य, रात्रौ भुक्तमभोजनम् ॥" आयुर्वेदेऽप्युक्तम्"हृन्नामिपद्मसंकोचश्चण्डरोचिरपायतः ।
अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥" परपक्षसंवादमभिधाय स्वपक्षं समर्थयते
"संसज्जीवसंघातं, भुञ्जाना निशि भोजनम् ।
राक्षसेभ्यो विशिष्यन्ते, मूढात्मानः कथं नु ते ? ॥"" एतदेवाह"वासरे च रजन्यां च, यः खादन्नेव तिष्ठति ।
शृंगपुच्छपरिम्रष्टः, स्पष्टं स पशुरेव हि ॥" रात्रिभोजनविरतानां सविशेषपुण्यवत्वं दर्शयति
"अन्हो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् ।
निशाभोजनदोपज्ञोऽनात्यसौ पुण्यभाजनम् ॥" ननु यो दिवैव 'भुंक्ते 'तस्स रात्रिभोजनप्रत्याख्याने फलं नास्ति ? फलविशेषो वा कश्चिदुच्यतामित्याह
"अकृत्वा नियमं दोषाभोजनादिनभोज्यपि । फलं फलेन्न निर्व्याजं; न वृद्धिर्भाषितं विना ॥"