________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २०५ पूर्वोक्तस्य विपर्ययमाह-. "ये वासरं परित्यज्य, रजन्यामेव भुंजते ।
ते परित्यज्य माणिक्य, काचमाददते जडाः ।" ननु यदि नियमः सर्वत्र फलवान् ततो यस्य "रात्रावेव मया भोक्तव्यं न दिवसे" इति नियमस्तस्य का गति? रित्याह
"वासरे सति ये श्रेयस्काम्यया निशि मुंजते ।
ते वपन्त्यूषरक्षेत्रे, शालीन् सत्यपि पल्वले ॥" रात्रिभोजनस्य दुर्विपाकफलमाह"उलूककाकमार्जारगृध्रशम्बरशूकराः ।
अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥" वनमालोदाहरणेनायमपि रात्रिभोजनदोषस्य त्यागमहत्तां दर्शयति यथा
"श्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः ।
निशाभोजनशपथं, कारितो वनमालया ॥" शास्त्रं निदर्शनं च विना सकलजनानुभवसिद्ध-रात्रिभोजनत्यागफलमाह
"करोति विरतिं धन्यो, यः सदा निशि भोजनात् ।
सोऽर्द्ध पुरुषायुषस्य, स्यादवश्यमुपोषितः ॥" तदेवं रात्रिभोजनस्य भूयांसो दोषास्तत्परिवर्जने तु ये गुणास्तान् वक्तुमसाकमशक्तिरेवेत्याह__ • "रजनीभोजनत्यागे, ये गुणाः परितोऽपि तान् । i न सर्वज्ञाहते कश्चिदपरो. वक्तुमीश्वरः ॥ ७० ॥