________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २०१ नेव सयं राइं मुंजेज्जा नेवऽन्नेहिं राई भुंजाविज्जा राइं भुजंतेऽवि अन्नेन समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छठे भंते ! वए उवढिओमि सबाओ राइभोयणाओ वेरमणं । ___"अहावरे" इत्यादि । अथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत् । तद्यथाअशनं, वा पानं वा खाद्यं वा खाद्यं वेति, 'अश्यत इत्यशनम् ,'-ओदनादि, 'पीयत इति पानं-मृद्वीकापानादि, 'खाद्यत इति खाद्यं खजूरादि, 'खाद्यत इति खाद्य' ताम्बूलादि, 'नैव स्वयं रात्रौ भुंजे, नैवान्यै रात्रौ मोजयामि, रात्रौ भुंजानानप्यन्यान्नैव समनुजानामि; इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृतपूर्वविधम् । विशेषस्त्वयम्-रात्रिभोजन चतुविधम् । तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतश्च । द्रव्यतस्त्वशनादौ, क्षेत्रतोऽर्धतृतीयेषु द्वीपसमुद्रेषु, कालतो रात्र्यादौ, भावतो रागद्वेषाभ्यामिति । स्वरूपतोऽप्यस्य चातुर्विध्यम् , तद्यथा-रात्रौ गृह्णाति रात्रौ भुंक्ते, १ रात्रौ गृण्हाति दिवा भुक्ते २, दिवा गृण्हाति रात्रौ भुक्ते ३, दिवा गृहाति दिवा भुंक्ते ॥ ४ ॥ संनिधिपरिभोगे द्रव्यादिचतुर्भगी पुनरियम्-द्रव्यतो नामैको रात्रौ भुक्ते नो भावतः १, भावतो नामैको नो द्रव्यतः २, एको द्रव्यतोऽपि भावतोऽपि ३, एको नो द्रव्यतो नो भावतः ॥ ४ ॥ तत्रानुद्गते सूर्ये उद्गत इत्यस्तमिते वाऽनस्तमित इत्यरक्तद्विष्टस्य कारणतो, वा रात्रौ भुञानस्य द्रव्यतो रात्रिभोजनं नो भावतः । रात्रौ भुज इति मूर्छितस्य तदसम्पत्तौ भावतो नो द्रव्यतः । एवमेव सम्पत्तौ द्रव्यतोऽपि, भावतोऽपि चतुर्थो भंगः पुनः