________________
१२४
___...
वीरस्तुतिः।
---
"धर्मनाशे क्रियाध्वंसे, सुसिद्धान्तार्थविप्लवे ।
अपृष्टैरपि वक्तव्यं, तत्खरूपप्रकाशने ॥" . ., , • "या मुहुर्मोहयत्येव, विश्रान्ता कर्णयोर्जनम् । " विषमं विषमुत्सृज्य, साऽवश्यं पन्नगी न गीः ॥" :
"न तथा चन्दनं चन्द्रो, मणयो मालतीलजः।।
कुर्वन्ति निर्वृतिं पुंसां, यथा वाणी श्रुतिप्रिया-" , "अपि दावानलप्लुष्टं, शाडलं जायते वनम् । - .. न लोकः सुचिरेणापि, जिह्वानलकदर्थितः ॥", । "सतां विज्ञाततत्वानां, सत्यशीलावलम्बिनाम् ।
चरणस्पर्शमात्रेण, विशुद्ध्यति धरातलम् ॥", . "नृजन्मन्यपि यः सत्यप्रतिज्ञाप्रच्युतोऽधमः। - --
स केन कर्मणा पश्चाजन्मपकाचरिष्यति ॥ "खण्डितानां विरूपाणां, दुर्विधानां च रोगिणाम् ।
कुलजात्यादिहीनानां, सत्यमेक विभूषणम् ॥" . . "न 'हि खप्नेऽपि संसर्गमसत्यमलिनैः सह।..
कश्चित्करोति पुण्यात्मा, दुरितोल्मुकशंकया 1 ) "सुतखजनदारादिवित्तबन्धुकृतेऽथवा । -
आत्मार्थे न वचोऽसत्य, वाच्यं प्राणात्ययेऽपि च ॥" इत्यादिप्रमाणैः सत्यमनवयं पापरहितमेव श्रेष्ठम् ॥
(अर्थ ब्रह्मचर्यमाह-):... ' तपस्सु चेच्छाया निरोधव्यापारेषु द्वादशप्रकारेषु मध्ये, यथैवोत्तम नवविधब्रह्मचर्यगुप्त्युपेतं ब्रह्मचर्य प्रधानं भवति । कमनीयकामिनीमनोहराङ्गानिरीक्षणद्वारेण समुपजनितकौतूहलचित्तवान्छापरित्यागेनाथवा