________________
"वीरस्तुतिः ।
}
" दीयते म्रियमाणस्य, कोटिर्जीवितमेव वा, धनकोटिं परित्यज्य, जीवो जीवितुमिच्छति ॥" अत्राभर्यदानप्रदानप्राधान्यख्यापनार्थमुदाहरणं चेदम् । बसन्तपुरेऽरिदमननामा राजाऽऽसीत् स कदाचित्प्रासादस्त्रो हि चतुर्वधूसमेतश्च क्रीडति स्म । ताभिरपि स्वखर्कलाभिर्महीप प्रमोदयित्वा वरो लब्धः । पुनश्च राज्ञीभी राज्ञि स वरो न्यासीकृतः । एकदा कश्चिच्चौरो रक्तश्यामकरवीरकृतमुण्डमालो रक्तपरिधानः प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः राजपत्नीभिर्दृष्टो नृपेण सह दृष्ट्ा च पृष्टं, 'किमनेनाकारी' ति, तदैकेन राजपुरुषेणावेदितं यथानेन परद्रव्याद्यपहारेण राजविरुद्धं धर्मविरुद्धं च कर्म कृतं तस्य परिणामस्वरूपो राज्ञा प्राणदण्डो दत्तश्चास्ते, ततस्तन्मध्य एकया महत्या राज्ञ्या नृपपार्श्वे पूर्वदत्तो वरो याचित एकदिनं चोरोऽयं मोच्यो, यथाऽहमुपकरोमीति । वरं प्राप्य च भोजनादिना स्वागतं कृत्वा खर्णखण्डसहस्रदानैस्तुष्टीकृतः सः । द्वितीयदिने द्वितीयया लक्षघनैः सत्कृतः । तृतीयया कोटिमितैः खागतीकृतः । चतुर्थ्या तु राजानुमत्याऽऽमरणाद्रक्षितः । अभयंवचनं दापितमभयदानेन ततस्तांस्तामुपहस्याहुः । त्वयास्य किं दत्तम् । तयोक्तं मया यद्दत्तं तत्काभिरपि न दत्तं । एवं तासां पारस्परिकेऽधिकोपकारविषये विवादे न्यायार्थं राजाऽऽकारितस्ततो राज्ञोपगम्यः कलहकारणं पृष्टं तदा तामिरावेदितं, अस्माकं मध्ये केनाधिकमुपकृतम् । राज्ञा स एव चोर आहूतः पृष्टश्चेति यथा त्वया - कस्या उपकारोऽमानितः । तेनाऽमाणि, 'चतुर्थ्यामात्राऽभयं दापयित्वा निर्भयः कृतः । अतस्तस्या : बहूपकारं मन्ये, सर्वदानानां मध्येऽमयदानस्यप्रधानत्वात् ।
११८
क
+
}