________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
११९
तथा च सत्येषु वाक्येषु यदनवा पापरहितं परपीडाऽनुत्पादकं वचनं तच्छेष्ठं वदन्ति । यथाह दशवैकालिके-- . .
"तहेव काणं काणेति, पंडगं पंडगं ति वा
वाहियं वावि रोगित्ति; तेण चोरेति नो वए।" तथा च मनुः।
“सत्यं ब्रूयात्मियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं तन्नानृतं ब्रूयादिति"। एवमेव तत्वार्थसूत्रे__असदभिधानमनृतम् ॥ ९ ॥ ७ ॥
असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्दा च। तत्र सद्भावप्रतिषेधो नाम . सद्भूतनिन्हवोऽभूतोद्भावनं च । तद्यथा नास्त्यात्मा, नास्तिपरलोकः, इत्यादि भूतनिन्हवः । श्यामाकतण्डुलमानोऽयमात्मा अंगुष्ठपर्वमानोऽयमात्मा, आदित्यवर्णो, निष्क्रिय इत्येवमाद्यमभूतोदावनम् । अर्थान्तरं यो गां ब्रवीत्यश्वमश्वं च गामिति । गति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमनृतमेवास्तीति भावः ।
एतन्मध्य एतत्प्रमाणानि-यथा
"क्रोधलोभमदद्वेषरागमोहादि कारणैः, असत्यस्य परित्यागः सत्याणुव्रतमुच्यते ।" "हासकर्कशपैशुन्यनिष्ठुरादिवचो मुचः । द्वितीयाणुव्रतं पूतं, लमंते देहिनः स्थितिम् ॥". । । "यद्वदन्ति शठा धर्म, यन्म्लेच्छेप्वपि निन्दितम् ।
( वर्जनीयं त्रिधा वाक्यमसत्यं तद्धितोद्यतैः-॥" पुनर्यत्रासत्यप्रसंगः समजनि तत्र मौनं कार्य परमसत्यं न वाच्यं, यथा हि सागारधर्मामृते--- - :