________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
११३
यतः
"यथा मम प्रियाः प्राणास्तथाऽन्यस्यापि देहिनः ।।
इति मत्वा न कर्तव्यो, घोरप्राणिवधो बुधैः ॥" अन्यच्च--
"अहिंसा परमो धर्मो, हिंसा सर्वत्र निन्दिता" इति श्लोकमर्धमभ्यस्य खमनसि सदैव दयैव धारणीया, यदि कोऽपि लोभावेशेन रसनातृप्तये धनार्जनाशया विजयाभिलाषेण च आमोदप्रमोदार्थ जन्तून्निहन्यात्तदा तेषां नरकपतनमवश्यं भावि । पातञ्जलयोगदर्शनादावपि चाहिंसायामेव प्रमुखत्वम् , यथाह- '
"अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" । अहिंसा-सत्यमित्यादियमास्तेषां मध्येऽहिंसैव प्राथमिकी; पुनश्च
"वितर्कवाधने प्रतिपक्षभावनम्" । वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षमावनम् ।
तथा चान्यदपि
"अहिंसा प्रतिष्ठायां तत्सन्निधाने वैरत्यागः । तद्विपक्षिणी हिंसा तस्य लक्षणं यथा--
"प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा" प्रमत्तो यः कायवाझ्मनोयोगैः प्राणन्यपरोपणं करोति सा हिंसा । हिंसा, मारणं, प्राणांतिपातः, प्राणवघो, देहान्तरसंक्रामणं, प्राणन्यपरोपपणमित्यनर्थान्तरम् । न हिंसाऽहिंसों । इति तत्वार्थसूत्रम्, तथा च योगसूत्रस्य व्यासकृतभाष्येऽपि 'तत्राऽहिंसा सर्वथा सर्वदा सर्वभूतानामभिद्रोहः।' .
.. ...
वीर. ८