________________
प्रबोधचन्द्रोदये सव्याख्ये महामोहः -- (विचिन्त्य) शान्तः कोऽभ्युपायः । अथवा अलमुपायान्तरेण । क्रोधलोभावेवं तावदत्र पर्याप्तौ । कः कोऽत्र भोः।
(प्रविश्य) दौवारिकः-आज्ञापयतु देवः । महामोहः--आहूयतां क्रोधो लोभश्च । दौवारिकः- यदाज्ञापयात देवः ।
(इति निष्क्रान्तः ।) दौवारिकः-- यदाज्ञापयति देवः ।
क्रोधः-श्रुतं मया शान्तिश्रद्धाविष्णुभक्तयो महाराजस्य प्रतिपक्षमाचरन्तीति । अहो मयि जीवति कथमासामात्मनिरपेक्षं चेष्टितम् । तथाहि -
अन्धीकरोमि भुवनं बधिरीकरोमि
धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति
धीमानधीतमपि न प्रतिसन्दधाति ॥२८॥ शान्तेः कोऽभ्युपाय इति । प्रतिपक्षादाक्रष्टुमिति शेषः ।
आत्मनिरपेक्षमिति । स्वस्वरूपं परित्यक्तुम् , अथवा मामनाहत्येत्यर्थः । मयि जीवतीत्यनेन दर्शितं स्वप्रभावमेव दर्शयति-तथाहीति ।
अन्धीकरोमि इतिकर्तव्यतामौढ्यं सम्पादयामि । भुवनमिति । भुवनस्थं जनम् । उच्चैरनुशिष्टमप्याचार्येन बाधिर्येण न शृणोति, तथा बधिरीकरोमि । धीरं धीमन्तम् । सचेतनं कार्याकार्यविषयविभागविवेचनक्षमम् । अन्धीकारफलमाह- कृत्यमिति । येनाहकारेण गृहीतो हितमिह
१. 'न्तेर्निवारणे को', २. 'वात्र' ख. पाठः,
-