________________
द्वितीयोऽङ्कः ।
६५
बिभीतः । कामादिषु प्रतिपक्षेषु कुतोऽस्याः सम्भवः । तथा
हि
धाता विश्वविसृष्टिमात्रनिरतो देवोऽपि गौरीभुजाश्लेषानन्दविघूर्णमाननयनो दक्षाध्वरध्वंसनैः ।
दैत्यारिः कमलाकपोलमकरीरेखाङ्कितोरःस्थलः शेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेः [कथा ॥ २७ ॥
५
(पुष्षं प्रति) जाल्म ! गच्छे । कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय । यथा - दुराशयो धर्म इत्यस्माभिरवगतम् । तदस्मिन् मुहूर्तमपि न विश्वसितव्यम् । दृढं बद्ध्वा धारथितव्य इति ।
पुरुषः
(क) जं देवो आणवेदि । (इति निष्क्रान्तः ।)
(क) यद् देव आज्ञापयति ।
सा जीवति चेत् अस्मत्कुलोच्छेद इत्याशङ्कयाह – कुतोऽस्या इत्यादिना । विघूर्णमाननयनः कामोद्रेककलुषित कटाक्षः । मकरी रेखा कस्तूरिकादिगन्धद्रव्य कल्पितपत्रलेखा । तथा अङ्कितं चिह्नितमुरःस्थलं यस्य स तथोक्तः । एवं प्रसिद्धप्रभावानां हिरण्यगर्भादीनामपि कामक्रोधादय एव प्रगस्भन्ते । किमु वक्तव्यमर्वाचीनेष्वित्याशयः ॥ २७ ॥
जाल्मोऽसमीक्ष्यकारी । प्रतिपादय प्रतिबोधय । दुराशयो धर्म इति । अयमाशयः — सकृदपि साद्गुण्येन सम्पादितो धर्मः कल्पकोटिव्यवस्थितोऽप्यपवर्गान्वेषी । तस्मात् स कारागृहे दृढं बद्ध्वा धारयितव्य इति । पुरुषः । यद्देव आज्ञापयति ।
१. 'तौ बिभीतः । कु', २. 'स्या वा स', एवं का', ५. 'मसु', ६. 'स्माकमादेशं प्र', मु' का पाठ
".
'कः ', ४. च्छि
३.
'ति ज्ञातमस्माभिः । तानन्