________________
प्रबोधचन्द्रोदये सव्याख्ये महामोहः - (पत्रं वाचयति ।)
_ 'स्वस्ति श्रीवाराणस्यां महाराजाधिराजपरमेश्वरमहा. मोहपादान पुरुषोत्तमायतनाद् मदमानौ साष्टाङ्गपातं प्रणस्य विज्ञापयतः । यथा भद्रमव्याहतम् । अन्यच्च देवी शान्तिर्मात्रा श्रद्धया सह विवेकस्य दौत्यमापन्ना विवेकसङ्गमाय देवीमुप. निषदमहर्निशं प्रतिबोधयति । अपिच कामसहचरोऽपि धर्मों वैराग्यादिभिरुपजप्त इव लक्ष्यते । यतः कामाद् विभिध कुतश्विनिगूढः प्रचरति । तदेतज्ज्ञात्वा तत्र देवः प्रमाणमिति। महामोहः- (सक्रोधम्) आः किभेवमतिमुग्धौ शान्सेरपि
अव्याहतमक्षतं सर्वम् । किन्तु शान्त्यादयः प्रतिपक्षा न का. स्न्येन परावृत्ता इत्याह - देवीति । प्रतिबोधयति प्रतिपादयति । मनु काम्यप्रतिषिद्धपरिहारेणानुष्ठितनित्यनैमित्तिकैः खल्ववदाताशयानां शान्त्या. दिसम्भावना, काम्यव्यतिरेकेण च कर्मणोऽनुपलम्भात् कुतः शान्तेरवकाश इत्याशङ्कयाह- अपिचेति । वैराग्यं नाम दृष्टानुश्रविकसुखतत्साधनेषु क्षयिष्णुत्वादिदोषनिरीक्षणेन वैतृष्ण्यम् । आदिशब्देन शमादयो गृहन्ते । उपजप्त इव अन्तर्भेदित इव । काम्यव्यतिरेकेणाप्यस्ति धर्म इत्यर्थः । कचिनिगूढ इति ।
“योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।" इत्यादिवचनादप्रकटितं महात्मभिः क्रियत इत्यर्थः । तर्हि का प्रतीकार इत्यत्राह -- देव इति । देवेनैवेतद् ज्ञातुं शक्यत इत्यर्थः ।
किमेवमिति । मदो मानश्च स्वप्रभावमविदित्वा किमिति चपलाया बालायाः शान्तेः साध्वसं गता इत्यर्थः । सत्यं बाला शान्तिस्तथापि
१. षायाः शा' ख. पाट:. ४. 'वचन निगू ख. ग. ब. पाठः.
२. 'म्यकप्र' ग. पाठः. ३. 'ण' न. पाट: