________________
५६
प्रबोधचन्द्रोदये सव्याख्ये हिंसायामथवा यथेष्टगमने स्त्रीणां परस्वग्रह
कार्याकार्यकथां तथापि यदमी निष्पौरुषाः कुर्वते॥१८॥
(विचिन्त्य सश्लाघम्) सर्वथा लोकायतमेव शास्त्रम् । यत्र प्रत्यक्षमेव प्रमाणं, पृथिव्यप्तेजोवायवस्तत्त्वानि, अर्थकामौ पुरुषार्थों, भूतान्येव चेतयन्ते, नास्ति परलोकः, मृत्युरेवापवर्गः । तदेतदस्मदभिप्रायानुबन्धिना वाचस्पतिना प्रणीय चार्वाकाय समर्पितम् । तेन च शिष्योपशिष्यद्वारेणास्मिल्लोके बहुलीकृतं तन्त्रम् ।
(ततः प्रविशति चार्वाकः शिष्यश्च ।) चार्वाकः- वत्स ! जानासि दण्डनीतिरेव विद्या । अत्रैव वार्तान्तर्भवति । धूर्तप्रलापस्त्रयी । स्वर्गोत्पादकत्वेन विशेषाभावात् । मिति कथां कुर्वते । विधिप्रतिषेधविभागं कल्पयन्तीत्यर्थः । तत्र हेतुमाह -निष्पौरुषा इति । पुरुषस्य भावः पौरुषमपराधीनत्वं तद्रहिता निप्पौरुषाः । निर्वीर्या इति यावत् ॥ १८ ॥
सर्वथेति । इतरशास्त्राणां नैरर्थक्यमित्यर्थः । भूतान्येवत्येवकारण भूतपरिणामप्रकाशितचिद्वयतिरेकेणान्यश्चेतनो व्यावय॑ते । अधुना लोकायततन्त्रस्य सम्प्रदायसिद्धतामाह - तदेतदिति । वाचस्पतिना बृहस्पतिना।
__ एवं तावद् राज्ञि महामोहे लोभादिभिः सह कथां कथयति सति चार्वाकः समागत इत्याह-तत इति ।
__ दण्डनीतिः अर्थोपार्जनोपायप्रक्रिया । वार्ता कृष्यादिलक्षणा जीविका । नन्वन्यापि वेदलक्षणा विद्या विद्यत इत्याशङ्कयाह-धूर्तप्रलाप इति ।
"त्रयो वेदस्य कर्तारो मुनिभण्डनिशाचराः।" इति वचनाद् धूर्तानां स्वार्थपराणां सखल्पितं वेदो नतु प्रामा१. 'ति । अन्याधीनाः निर्वी क. ख. पाठ