________________
द्वितीयोऽः। इदं च, स्वकल्पनाविनिर्मितपदार्थावष्टम्भेन जगदेव दुर्विदग्धैर्वञ्च्यते। तथाहि - यन्नास्त्येव तदस्ति वस्त्विति मृषा जल्पगिरेवास्तिकै__ चालैर्बहुभिस्तु सत्यवचसो निन्द्याः कृता नास्तिकाः। हहो पश्यत तत्त्वतो यदि पुनरिच्छन्नादितो वह्मणो
दृष्टः किं परिणामरूषितचितेर्जीवः पृथक् तैरपि ॥१७॥ अपिच न केवलं जगत् , आत्मैव तावदीभिर्वञ्च्यते । तथाहि - तुल्यत्वे वपुषां मुखाद्यवयवैर्वर्णक्रमः कीदृशो
योषेयं वसु वा परस्य तदमुं भेदं न विद्मो वयम् । इदं च । अपरं मौव्यमिति शेषः । तदेव दर्शयति-तथाहीति ।
यद् देहादिव्यतिरिक्तात्मवस्तु कालत्रयेऽपि न दरीदृश्यते, तद् वस्तु अस्तीति जल्पन्तः प्रलापिनः आस्तिकाः अप्रामाणिकार्थभाषिणोऽपि बहुमता इत्यर्थः । वयं तु सर्वसम्प्रतिपन्नप्रत्यक्षादिसिद्धयथाभूतार्थवादिनोऽपि गर्दाः वाचालैबहुभाषिभिः । हहो अहो आश्चर्यमित्यर्थः । ननु शास्त्रार्थभाषित्वात् तेषां न केवलं वाचालतेति चेत् तत्राह - तत्त्वत इति । परमार्थतः खण्डिताद् देहात् । तमेव विशिनष्टि - परिणामेति । परिणामेन भूतानां संयोगविशेषेण रूषिता वासिता चितिः चैतन्यं यस्मिन् शरीरे तत् तथा । तस्मात् पृथगिति । अयं भावः - अहमात्मेति सामानाधिकरण्यदर्शनाद् देहस्य ममप्रत्ययस्य त्वौपचारिकत्वान्मृतशरीरे च विकसितचैतन्याभावेनाप्रसङ्गात् ताम्बूलपूगकर्पूरादीनां योग्यपरिणामसंयोगाभिव्यक्तमदशक्तिवत् पृथिव्यप्तेजोवायुलक्षणभूतचतुष्टयपरिणामवासितचितिदेह एवात्मा । नतु तद्वयतिरेकेण पादादिकेशान्तं तिलशः शकलीकृत्य विलोक्यमानेऽस्मदिन्द्रियगम्यं वस्त्वस्तीति ॥ १७ ॥ ____ आत्मवञ्चनमेव दर्शयति – तुल्यत्व इति । वाशन्दान कवलमवयवसाम्यमेव, सम्भोगायपि समानमित्यर्थः । कार्य कर्तव्यम् कार्यमकर्तव्य