________________
५४
प्रबोधचन्द्रोदये सव्याख्ये (नेपथ्ये)
भो भोः पौराः ! एष खलु सम्प्राप्तो देवो महामोहः ।
तेन,
निष्यन्दैश्चन्दनानां स्फटिकमणिशिलावेदिकाः संस्क्रियन्तां मुच्यन्तां यन्त्रमार्गाः प्रचरतु परितो वारिधारा गृहेषु ! उच्छ्रीयन्तां समन्तात् स्फुरदुरुमग्यः श्रेणयस्तोरणानां धूयन्तां सौधमूर्धस्वमरपतिधनुर्धामचित्राः पताकाः
[॥ १५ ॥ दम्भः- आर्य ! प्रत्यासन्नोऽयं महाराजः । तत्प्रत्युद्गमनेन सम्भाव्यतामार्येण ।
1
les
अहङ्कारः
एवं भवतु । (निष्कान्तौ ।)
it
(विष्कम्भकः )
(ततः प्रविशति महामोहो विभवतश्च परिवारः । ) महामोहः – (विहस्य) अहो, निरङ्कुशा जडधियः । आत्मास्ति देहाद् व्यतिरिक्तमूर्ति
र्भोक्ता स लोकान्तरितः फलानाम् ।
आ॒ह्वोयमाकाशतरोः प्रसूनात्
प्रथीयसः, स्वादुफलप्रसूतौ ॥ १६ ॥
यन्त्रमार्गाः सलिलनिष्यन्दप्रणाल्यः ।। १५ ।। . ...
भिः विभवतः करिनरतुरगादिविभवैः कामक्रोधपरिवारैश्च परिवृत इत्यर्थः । निरङ्कुशाः- अविविच्यनिश्चितार्था इत्यर्थः ।
i
तदेव दर्शयति - आत्मास्तीति । आत्मा नाम देहाद् व्यतिरिक्तः कश्चिदस्ति । स चास्मिन् शरीरे कर्माणि कृत्वा लोकान्तरं प्राप्य देहान्तरेणेहकृतस्याशुतरविनाशिनः कर्मणः फलं भोक्तेत्येतन्मनोरथमात्रम्, अस्मत्प्रत्यचगम्यं न भवतीत्यर्थः । प्रत्यक्षायोग्यस्य वस्तुनोऽनुपपत्तावुदाहरणमाह – आशेति ॥ १६ ॥