________________
द्वितीयोऽः। अहङ्कारः- (सभयम् ) यद्येवमशक्यप्रतकिार एवायमर्थः । यतः
परममविदुषां पदं नराणां
पुरविजयी करुणाविधेयचेताः । कथयति भगवानिहान्तकाले
भवभयकातरतारकं प्रबोधम् ॥ १३ ॥ दम्भः -- सत्यमेतत । तथापि नैतत् कामक्रोधाभिभूतानां सम्भाव्यते । तथायुदाहरन्ति तैर्थिकाः
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥१४ ॥
पुरविजयी त्रिपुरहन्ता। किन्तु सोऽपि स्वतन्त्रो न भवतीत्याहकरुणेति । भवसागरपरिभ्रमणपरिखेदपरिदूयमानप्राणिनिवहानिरीक्षणसञ्जातबहलतरकरुणाविधेयं प्रवर्तनीयं चेतो यस्य स तथा । अतस्तया प्रेरितः कथयत्युपदिशति । प्रबोधं प्रत्यगब्रह्मणोरेकत्वविज्ञानम् । तं विशिनष्टि - भवेति । भवः संसारः स एव दुःखरूपत्वाद् भयं तेन कातरता विषादः तं तारयतीति तथोक्तम् । नराणामित्युपलक्षणम् । सर्वेषामप्यविमुक्तक्षेत्रवर्तिनामनन्यशरणानां कथयत्येवं भगवान् भवानीपतिरन्तकाल इत्यर्थः ॥१३॥
एवमपि न भेतव्यमित्याह - सत्यमिति । हस्तादिसंयतिरनिष्टाकरणम् । विद्या शास्त्रार्थज्ञानम् । तपो विहितानुष्ठानम् । कीर्तिः पुण्यनिमिता ख्यातिः । तीर्थफलं पुण्यफलम् ॥ १४ ॥
१. णिनिरी' ग.
: .. 'णया प्र' क. ख. पार:. ३. 'व करुणामूर्तिरन्त'
क. पाठ:.