________________
५२
प्रबोधचन्द्रोदये सव्याख्ये __ अहङ्कारः - वत्स ! मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम् । तेन तद्वृत्तान्तं प्रत्येतुमागतोऽस्मि ।
दम्भः - तर्हि स्वागतमेवार्यस्य । यतो महाराजस्यापीन्द्रलोकादत्रागमनं श्रूयते । अस्ति च किंवदन्ती यद्देवेन वाराणसी राजधानी वस्तुं निरूपितेति ।। __ अहङ्कारः - किं पुनर्वाराणस्यां सर्वात्मना मोहस्यावस्थानकारणमिति । दम्भः - आर्य! ननु विवेकोपरोध एव । तथाहि - विद्याप्रबोधोदयजन्मभूमि
वाराणसी ब्रह्मपुरी दुरत्यया । असौ कुलोच्छेदविधि चिकित्सु
निर्वस्तुमच्छति नित्यमेव ॥ १२ ॥ अत्याहितमतिक्रम, भयस्थानमिति यावत्।
सोऽयमस्मदनुकूल एवाहकार इति मन्बान आह -नीति । स्वागतमित्युक्तं, तत्र हेतुमाह -- यत इति । इन्द्रलोकस्य भोगभूमित्वात् तत्र विशेषेण मोहबाहुल्यं, न तत्र विवेकावकाश इत्यर्थः । किमिति तर्हि इहागमनमिति, तत्राह - यद्देवनेति ।
विवेकादुपरोधः उपद्रवः । अथवा विवेकमुपरोद्धम् । उपरोधमेव दर्शयति-तथाहीति । विद्या वेदान्तविज्ञानम् । उक्तञ्च
"ज्ञानं वेदान्तविज्ञानमज्ञानमितरन्मुने ! ।" इति । प्रबोधः स्वापरोक्ष्यम् । तयोरुदयो व्यक्तिस्तस्या जन्मभूमिरुत्पत्तिस्थानम् । ब्रह्मणोऽभिव्यञ्जकत्वाद् ब्रह्मपुरी । दुःखेनात्ययोऽतिक्रमणं यस्याः ता तथा । निरत्ययेति वा पाठान्तरम् । निरपायेत्यर्थः । यस्मादेवं वाराणयतोऽत्रास्मत्कुलस्योच्छेदनस्य विधिनिष्पादनं, तंत् चिकित्सुः प्रतिकर्तुमेच्छन् इहैव वस्तुमिच्छत्यसौ महामोह इत्यर्थः ॥ १२॥
Huz.. चिकीर्ष प्र' ख ग विधिम' घपा.