________________
द्वितीयोऽयः । अवेहि तपसो बलं मम पुरन्दराणां शतं __शतं च परमेष्ठिनां पततु वा मुनीनां शतम् ॥११॥
दम्भः- (विलोक्य सानन्दम् ।) अये! आर्यः पितामहोऽस्माकमहङ्कारः । आर्य! दम्भो लोभात्मजोऽभिवादये ।
अहङ्कारः - वत्स! आयुष्मान् भव । बालः खल्वसि, मया द्वापरान्ते दृष्टः । सम्प्रति चिरकालविप्रकर्षाद् वार्धक्यग्रस्ततया च न सम्यक् प्रत्यभिजानामि । अथ त्वत्कुमारस्यानृतस्य कुशलम् ।
दम्भः -अथ किम् ! सोऽप्यत्रैव महामोहस्याज्ञया वतते । नहि तेन विना मुहूर्तमप्यहं प्रभवामि ।
अहङ्कारः - अथ तव मातापितरौ तृष्णालोभावपि कुशलौ ।
दम्भः - तावपि राज्ञो महामोहस्याज्ञयात्रैव वर्तेते । तौ विना क्षणमपि न तिष्ठामि : आर्यमित्रैः पुनः केन प्रयोजनेनात्र प्रसादः कृतः। तत्राह - अवेहीति । अयमर्थः - सम्प्रति पुरन्दरादिभिरिहागन्तव्यमिति चेन्मम मनीषा जागति, तर्हि सत्वरमेव त्रिदिवादिहागच्छन्तीति ॥ ११ ॥
द्वापरान्तः कलियुग इत्यर्थः । (चिरकालविप्रकर्षात् ) कृतयुगादिकालविप्रकर्षात् (2)। अनृतस्य मिथ्याभाषिणः । .
नहि तेन विनेति । अयमर्थः ---- अविद्यमानस्य विद्यमानवत्प्रकटीकारो हि दम्भः । स चानृताविनाभूत इति साहचर्यमिति ।
तृष्णा कदाचिदप्यनलम्बुद्धिः । लोभः सर्वतः समादित्सा, स्वद्रयत्यागासहिष्णुता वा।
सात्त्विकाहङ्कारशङ्कया पृच्छति- आर्यमित्रैः पुनरित्यादिना ।