________________
५०
प्रबोधचन्द्रोदये सव्याख्ये अस्मत्स्यालकभागिनेयदयिता मिथ्याभिशस्ता तत
स्तत्सम्पर्कवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता ॥९॥
दम्भः-ब्रह्मन् ! यद्यप्येवं, तथाप्यविदितास्मवृत्तान्तो भवान् । तथाहि -
सदनमुपगतोऽहं पूर्वमम्भोजयोनेः
सपदि मुनिभिरुच्चैरासनेषूज्झितेषु । सशपथमनुनीय ब्रह्मणा गोमयाम्भ:
परिमृजितनिजोरावाशु संवेशितोऽस्मि ॥१०॥ अहङ्कारः - (स्वगतम्) अहो, दाम्भिकस्य ब्राह्मणस्यात्युक्तिः । (विचिन्त्य) अथवा दम्भस्यैव । भवत्वेवं तावत् । (प्रकाशम् ) आः किमेवं गर्वायसे । (सक्रोधम् ।) अरे क इव वासवः कथय को नु पद्मोद्भवो
वद प्रभवभूमयो जगति का ऋषीणामपि ।
विद्यमानं (१) न भवतीत्यर्थः । तस्यां प्रणयाभावादिति न शङ्कनीयमित्या. ह-प्रेयस्यपीति । तत्सम्बन्धनिमित्तप्रत्यवायभयादेव केवलमिति भावः । प्रोज्झिता प्रकर्षण उज्झिता ॥ ९॥
सशपथमिति । इतःपूर्वमयमन्यैर्नाकान्त इत्येवंप्रत्ययेन सह सकदासितुं योग्यमिति याञापूर्वमुपवेशित इत्यर्थः ॥ १० ॥
नास्माकं जननीत्यत्र मातृवंशाद् वैशारद्यममाणि, तद्दम्भेन तथा स्वीकृतं प्रायेणेत्याशङ्कय इन्द्रादिनिन्दयात्मानमतिशाययति-(अरे) क इवे. त्यादिना । अहल्याभिगमनाद् बालिशः सोऽपीत्यर्थः : को न्विति । दुहितृगमनादिना सोऽपि तथाविध इत्यर्थः । प्रभवभूमय उत्पत्तिस्थानानि ऋषीणां व्यासादीनां योजनगन्ध्यादय एवेत्यर्थः । तव वा पुनः कोऽतिशय इति
१. 'शवै' ख. ग. पाठः,