________________
द्वितीयोऽहः ।
(दम्भो वटुं पश्यति) वटुः -- (ताम्रघटीं गृहीत्वा) ब्रह्मन् ! पादशौचं विधीयताम् ।
अहङ्कारः-भवतु । कोऽत्र विरोधः । एवं क्रियते (तथा कृत्वोपसर्पति ।)
___ (दम्भः दन्तान् पीडयित्वा वटुं पश्यति ।) वटुः-दूरे तावत् स्थीयताम् । वाताहताः प्रवेदकणिकाः प्रसरन्ति ।
अहङ्कारः- अहो, अपूर्वमिदं ब्राह्मण्यम् । वटुः-ब्रह्मन् ! एवमेतत् । तथाहि -
अस्पृष्टचरणा ह्यस्य चूडामणिमरीचिभिः । नीराजयन्ति भूपालाः पादपीठान्तभूतलम् ॥ ८ ॥ अहङ्कारः- (स्वगतम्) अये, दम्भग्राह्योऽयं देशः । (प्रकाशम् भवतु । अस्मिन्नासने उपविशामि। (तथा कर्तुमिच्छति।)
वटुः-मैवम् । नाराध्यपादानामन्यैरासनमाक्रम्यते ।
अहङ्कारः- आः पाप! अस्माभिरपि दक्षिणराढाप्रदेशप्रसिद्धविशुद्धिभिर्नाक्रमणीयमिदमासनम् । शृणु रे मूर्ख! नास्माकं जननी तथोज्ज्वलकुला सच्छ्रोत्रियाणां पुन
यूंढा काचन कन्यका खलु मया तेनास्मि ताताधिकः ।
तयं न बहिष्कार्य इत्याराध्यपादनिरीक्षिताभिप्राय इति मन्वानो वटुराह-ब्रह्मन्! पादशौचमिति ।
दन्तान् पीडयित्वा कटकटायितान् कृत्वा । अपूर्वमिदं ब्राह्मण्यमिति छलेनापहासः कृतः। नीराजयन्ति अभिद्योतयन्ति ॥ ८॥ स्यालको भार्यासहोदरः। तस्य स्वस्त्रीयस्य दयिता मिथ्यामि शस्त