________________
प्रबोधचन्द्रोदये सव्याख्ये दम्भः -(हस्तसंज्ञया समाश्वासयति ।)
वटुः- एवमाराध्यपादा आज्ञापयन्ति । दूरदेशादागतस्यार्यस्य कुलशीलादिकं न सम्यगस्माभिर्विदितम् ।
अहङ्कारः-आः कथमस्माकमपि कुलशीलादिकमि. दानी परीक्षितव्यम् । श्रूयतां -
गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी __ भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमो नः पिता । तत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि
प्रज्ञाशीलविवेकधैर्यविनयाचारैरहं चोत्तमः ॥ ७ ॥ हस्तसंज्ञयेति ।
हस्तचालनाकूतमावेदयन्नाह वटुः- एवमिति ।
कथमित्यादेरयं भावः-भास्वद्भानुप्रभावत् प्रसिद्धप्रभावानामस्माकमपीत्यभिमानवतां भाव इति । ननु ज्ञातमेव जिज्ञासितं त्वया, भवतु तथापि वदामीत्यभिप्रायेणाह - श्रूयतामिति ।
राज्यमधिकृत्य परीक्ष्यमाणे तावन्मत्प्रभावस्योपमा नास्तीत्याह - गौडमिति । द्युमण्डलपरिमण्डनाखण्डमार्ताण्डमण्डलवदखण्डभूमण्डलपरिमण्डनं हि गौडमिति भावः । निरुपमेति दक्षिणाराढेति विवक्षिता । धाम गृहम् । किमु वक्तव्यं मत्प्रभावस्य माहात्म्यमिति दर्शयतुं कैमुतिक न्यायन पित्राद्यौत्कृष्टयं दर्शयन्नाह --- तमोत्तम इति । प्रज्ञा प्रकृष्टज्ञानसम्पत्तिः । शील सवृत्तम् । उक्तञ्च --
"अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्व ज्ञानं च शीलमेतद् विदुर्बुधाः ॥" इति । कर्तव्याकर्तव्यविषयविभागविज्ञानं विवेकः ।धैर्यमविषादः । विनयो गुर्वादिषु च प्रश्रयः । आचारो नित्याद्यनुष्ठानम् । एतैर्जगति मत्तुल्यो नास्तीत्यर्थः ॥ ७॥