________________
द्वितीयोऽङ्कः । विन्यस्तकृष्णाजिनदृषदुपलसमिच्चषालोलूखलमुसलमनवरतहुताज्यगन्धिधूमश्यामलितगगनमण्डलममरसरितो नातिदूरे विभात्याश्रममण्डलम् । नूनमिदं कस्यापि गृहमधिनो गृहं भविष्यति । भवतु । युक्तमस्माकमतिपवित्रमेतद् द्वित्रदिवसनिवासस्थानम् । (प्रवेशं नाटयति) । (विलोक्य च) अये.
मृद्विन्दुलाञ्छितललाटभुजोदरोरः
कण्ठोष्ठपृष्ठचिबुकोरुकपोलजानुः । चूडापकर्णकटिपाणिविराजमान
दर्भाङ्कुरः स्फुरति मूर्त इवैष दम्भः ॥६॥ भवतूपसाम्येनम् । (उपसृत्य) कल्याणं भवतु भवताम् ।
(दम्भो हुकारेण वारयति ।)
(प्रविश्य वटुः) वटुः - (ससंभ्रमम् ) ब्रह्मन्! दूरत एव स्थीयताम् । यतः पादौ प्रक्षाल्य एतदाश्रमपदं प्रवेष्टव्यम् ।
अहङ्कारः - (सक्रोधम् ) आः पाप! तुरुष्कदेशं प्राप्ताः स्मः। यत्र श्रोत्रियानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ते ।
मृद्विन्दुरिति । भागीरथीसरःपरिसरमृदुलमृत्स्नातिलकितललाटाधु. कस्थान इत्यर्थः । चूडाग्रं शिखा । दर्भाङ्कुर. कुशभारः । मूर्त इवेति । स्वयं दम्भ एवेत्यर्थः ॥६॥
__ मौनव्याजव्यग्रेणासहमानेनायं हुङ्कारः प्रयुक्त इत्यवगच्छन् वाचा वारयन् वटुराह --ब्रह्मन्निति ।
सार्वत्रिकत्वाद् दाम्भिकत्वस्यातिथ्यकृदंग्रेसरत्वभङ्गभयाद्धस्तेनाह१. 'ई' क. ग. पाठः २. 'ता' ग, पाठः,