________________
प्रबोधचन्द्रोदये सव्याख्ये प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः। .. वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥४॥
तदेतद्वाङ्मात्रश्रवणमपि गुरुतरदुरितोदयाय । पुनरन्यतो गत्वा) एते च शैवपाशुपतादयो दुरभ्यस्ताक्षपादमताः पशवः पाषण्डाः । अमीषां सम्भाषणादपि नरा नरकं यान्ति । तदेते दर्शनपथाद् दूरतः परिहरणीयाः । (पुनरन्यतो गत्वा) एते त्रिदण्डव्यपदेशजीविनो द्वैताद्वैतमार्गपरिभ्रष्टा एव । (पुनरन्यतो गत्वा) एते चगङ्गातीरतरङ्गशीतलशिलाविन्यस्तभास्वबृसी
संविष्टाः कुशमुष्टिमण्डितमहादण्डाः करण्डोज्ज्वलाः । पर्यायग्रथिताक्षसूत्रवलयप्रत्येकबीजग्रहव्यग्राग्राङ्गुलयो हरन्ति धनिनां वित्तान्यहो दाम्भिकाः।।५।।
(अन्यतो गत्वा विलोक्य) अये! कस्यैतद् द्वारोपान्तनिखातातिप्रांशुवंशकाण्डताण्डवितधौतसितसूक्ष्माम्बरसहस्रमितस्ततो
प्रत्यक्षादिप्रमाणसिद्धार्थविरुद्धाभिधानशीलाः निगमान्ता यदि शास्त्राणि, तर्हि शून्यं जगदिति वदद्भिः ताथागतैः किमनिष्टमनुष्ठीयते । विरोधस्योभयत्राविशेषादिति भावः ॥४॥
दुरभ्यासो दुष्टाभ्यासः । अक्षपादमतं नैयायिकं दर्शनम् । अप्रवीणतयाभ्य(सं? स्तं) मन्याः दुर्ललिताः । द्वैताद्वैतमार्गपरिभ्रष्टा इति । भेदाभेदवादित्वान्नैकत्रापि स्थितिं लभन्त इत्यर्थः।
बृसी विष्टरम् । करण्डः पुष्पपुटिका । पर्यायेण क्रमेण । अथितं प्रोतम् । अक्षसूत्रं रुद्राक्षमाला । बीजग्रहव्यत्रता नाम सत्वरमग्राङ्गुलिप्रचालनम् ॥५॥
१. 'दातिवदन' क. पाठः