________________
द्वितीयोऽङ्कः ।
(ततः प्रविशत्यहकारो यथानिर्दिष्टः ।) अहङ्कारः - अहो मूर्खबहुलं जगत् । तथाहि -- नैवाश्रावि गुरोर्मतं न विदितं को पारिलं दर्शनं
तत्त्वज्ञानमहो न शालिकगिरी वाचस्पतेः का कथा। सूक्तं नापि महोदधेरधिगतं माहावती नेक्षिता
सूक्ष्मा वस्तुविचारणा नृपशुभिः स्वस्थैः कथं स्थीयते ॥३॥ - (विलोक्य) एते तावदर्थावधारणविधुराः स्वाध्यायाध्ययनमात्रनिरता वेदविप्लावका एव । (पुनरन्यतो गत्वा) एते च भिक्षामात्रं गृहीतयतिव्रता मुण्डितमुण्डाः पण्डितम्मन्या वेदान्तशास्त्रं व्याकुलयन्ति । (विहस्य)
दम्भाहङ्कारयोरविनाभावाद् दम्भप्रवेशानन्तरमहङ्कारः प्रवर्तत इत्याह-तत इति । - ज्वलन्निवेत्यादिना संगृहीतमहङ्कारस्वरूपं प्रपञ्चयति- अहो मूखंबहुलं जगदिति ।
गुरोर्मतं प्राभाकरम् । कीमारिलं भट्टाचार्यप्रणीतम् । शालिकनाथस्य प्राभाकरशिष्यस्य वाचां तत्त्वं तात्पर्यप्रतिपाद्यम्। वाचस्पतेगिरामित्यनुषाः। सूक्तं सुष्ठ भाषितं महोदधेः पूर्वकाण्डोपयोगिग्रन्थकर्तुः । माहाव्रती जरन्मीमांसा । अथवा भद्रदीपप्रतिष्ठीदिप्रजापतिव्रतविशेषाणां समाहारो माहाव्रती। अथवा महाव्रतं नाम शैवागमभेदः । तत्रेरिता माहाव्रती । नेक्षिता । सुक्ष्मा मन्दा । नास्त्येवेत्यर्थः । वस्तुविचारणा परमार्थतत्त्वचिन्ता । नृपशुभिः नृशब्दवाच्यपशुभिः । स्वस्थैः कृतार्थमात्मानं मन्यमानैरित्यर्थः ॥ ३॥
___ एवं तावदहकारगर्वितानां सज्जनावधीरणा पापिष्ठतमा भवतीति सामान्येन प्रदर्येदानी प्रत्येकं शास्त्रैः सह सन्निन्दाप्रकारमेव दर्शयति - एते तावदित्यादिना । वेदविप्लावका वेदविदूषकाः । भिक्षामात्रमिति । भिक्षार्थमिति यावत् । व्याकुलयन्ति । ईदृगस्यार्थ इति निर्णेतुमसमर्था व्यालोलयन्तीत्यर्थः ।
१. 'शयित' ख. पाठः. २. 'ठाप्रभृतित्र', ३. 'सज्जननि' क. पाठ:.