________________
४४
प्रबोधचन्द्रोदये सव्याख्ये वेश्यावश्मसु शीधुगन्धिललनावक्त्रासवामोदितै.
नीत्वा निर्भरमन्मथोत्सवरसैरुन्निद्रचन्द्राः क्षपाः । सर्वज्ञा इति दीक्षिता इति चिरात् प्राप्ताग्निहोत्रा इति ब्रह्मज्ञा इति तापसा इति दिवाधूतैर्जगद् वञ्च्यते ॥१॥
(विलोक्य) कोऽप्ययं पान्थो भागीरथीमुत्तीर्य साम्प्रतमित एवाभिवर्तते । यथाचायं
ज्वलन्निवाभिमानेन ग्रसन्निव जगत्रयीम् । भर्सयन्निव वाग्जालैः प्रज्ञयोपहसन्निव ॥ २ ॥
तथा तर्कयामि नूनमयं दक्षिणाराढाप्रदेशादागतः । तदस्मादार्यस्याहङ्कारस्य वृत्तान्तमवगच्छामि । (इति परिक्रामति।)
भावः । वशीकृतभूयिष्ठेति । बाहुल्येन मदधीना एव क्षे उर्तिन इत्यर्थः । न केवलमे.देव, शत्रवश्च परिभूता इत्याह - - सम्पादितः ।।
नितरां भरो निर्भरः : दिवाधूर्ताः घस्रमलिम्लुचाः ॥१॥
एवं दम्भबाहल्यं प्रदाहङ्कारगरिमाणं दर्शयन्नाह - कोऽध्ययमिति ।
येनं प्रकारेणायमहङ्कार एव स्यात् तथाप्रकारं प्रदर्शयन्नहङ्कारस्वरूपं संगृह्णाति ... यथा चायमिति । अभिमानेन कुलीनत्वादिनिमित्तेन । असन् भक्षयन् । त्रयाणां लोकानां समाहारो जगत्रयी। तदेतदहमेवेत्यभिमान इत्यर्थः । भर्ल्सयन्नधिक्षिपन् । वाग्जालैः प्रगल्भोक्तिभिः । प्रज्ञया आशुग्रहणसामर्थलक्षणया ॥ २ ॥
दक्षिणाराढा खल समग्राहङ्कारनिवेशस्थानम् । तस्मादागत इवायं लक्ष्यते । तदार्यवृत्तान्तमेनं पृच्छामीति मन्वानो ब्रूते - तथा तर्कयामीति ।
१.
'न केन प्र' ग, पाठ:.