________________
प्रथमोऽकः ... मतिः - (क) अण्णाओ ताओ इत्थिआओ, जाओ सरसप्पउत्तरस वा धम्मपहवावारप्पवुत्तस्स वा भत्तुणो हिअ.
अदिअं विहणन्दि। .. राजा-प्रिये! मानिन्याश्चिरविप्रयोगजनितासूयाकुलाया भवे
च्छान्त्यादेरनुकूलनादुपनिषदेव्या मया सङ्गमः । तूष्णीं चेद् विषयानपास्य भवती तिष्ठेन्मुहतं ततो
जाग्रत्स्वप्नसुषुप्तिधामविरहात प्राप्तः प्रबोधोदयः॥ ३० ॥ मतिः- (ख) अज्जउत्त! जदि एवं कुळप्पहुणो दिढगं.
(क) अन्यारताः स्त्रियः, याः स्वरसप्रवृत्तम्य वा धर्मपथव्यापारप्रवृत्तस्य वा भर्तुर्हृदयेप्सितं विघ्नन्ति ।
(ख) आर्यपुत्र ! यद्येवं कुलप्रभोदृढग्रन्थिनिष्ठापितबन्धमोक्षो भवति,
मतिः । अन्यास्ताः स्त्रियः, याः स्वरसप्रवृत्तस्य वा धर्मपथव्यापारप्रवृत्तस्य वा भर्तुर्हृदयेप्सितं विघ्नन्ति ।
___ अहं तावदनुकूलैवार्य पुत्रस्येति मत्योक्तः स्वाशयमाविष्कुर्वन्नाह - मानिन्या इति । मानिन्या दयिताया उपनिपदेव्या मया सङ्गमो यदि भवेत् तर्हि प्रबोधोदयः प्राप्त इत्यन्वयः । यदि भवेदिति किमुच्यत इत्याशङ्कयाह -- मानिन्या इति । ननु प्रियसगमादिभिमानः स्त्रीगां दिनश्यत्येव । सत्यम् , अनपराधिनं प्रति । इह तु मम महानपराध इत्याह - चिरविप्रयोगेति । कथं तर्हि तया सह तव सङ्गम इति, तबाह -~शान्त्यादरिति । शान्तिश्रद्धाविष्णुभक्त्यादयः तां प्रसाद्यानीय मया सह संयोजयिष्यन्तीत्यर्थः । किन्तु स्वल्पं प्रार्थ्यमस्तीत्याह-तृष्णी चेदिति । शान्या दिसामग्रयां सत्यां मतिप्रसादादवस्थात्रयातीतपरमार्थवस्तुविषयसम्यग्ज्ञानं झटिति जायत इत्यर्थः ॥३०॥
पतिव्रतानां भर्तुः प्रियेणैवालमिति मन्वाना ब्रवीति मतिः- आर्य पुत्र! यद्येवं कुलप्रभोदृढग्रन्थिनिष्ठापितबन्धमोक्षो भवति, ततस्तया नित्या. नुबद्ध एवार्यपुत्रो भवतु । सुष्ठु मे प्रियमिति ।
१. 'दभिमानः' ख. ग. घ. पाठ:.