________________
१२
प्रबोधचन्द्रोदये सव्याख्ये थिणिट्टाविअबन्धमोक्खो भोदि, तदो ताए णिच्चानुबद्धो जेव्व अज्जउत्तो भोदु । सुठु मे पिअम् ।
राजा-यद्येवं प्रसन्नासि, सिद्धास्तीस्माकं मनोरथाः।
तथाहिबद्ध्वैको बहुधा विभज्य जगतामादिः प्रभुः शाश्वतः
क्षिप्त्वा यैः पुरुषः पुरेषु परमो मृत्योः पदं प्रापितः । तेषां ब्रह्मभिदां विधाय विधिवत् प्राणान्तिकं विद्यया
प्रायश्चित्तमिदं मया पुनरसौ ब्रह्मैकतां नीयते ॥३१॥ तद् भवतु । प्रस्तुतविधानाय शमादीनुद्योजयामः ।
(निष्क्रान्तौ ।) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये मायाविलसितं नाम
प्रथमोऽङ्कः ॥
-
ततस्तया नित्यानुबद्ध एवार्यपुत्रो भवतु । सुष्ठु मे प्रियम् ।
इदानीमानुकूल्यमालक्ष्य सन्तुष्टः सन्नाह -यद्येवमिति ।
कि तन्मनोरथेति तदाह - बद्ध्वैक इत्यादिना । बद्ध्वा अवच्छिद्य बहुधा करिनरतुरगादिभेदेन विभज्य पृथक्कृत्य यैर्मोहादिभिरयमात्मा पुरेषु शरीरेषु क्षिप्त्वा, मृत्योरित्युपलक्षणं, जन्मादिधर्मभाक् कृतः, तेषामखण्डैकरसपरिपूर्णब्रह्मभिदां महामोहादीनामविद्यमानंतापादनेनायं क्षे. त्रज्ञोऽस्माभिर्ब्रह्मपदेऽभिषेचनीय इत्यर्थः ॥ ३१॥
किं तर्हि साम्प्रतं कर्तव्यमिति तत्राह -तद् भवत्वित्यादिना । शमदमादिप्रसादसाध्यत्वादस्यार्थस्य, अतस्तान् विशिष्टदेशकालपात्रेषूद्योजयामः सन्नाहयाम इत्यर्थः ॥ इति श्रीमत्प्रकाशतीर्थभगवत्पूज्यपादशिष्येण गोविन्दामृतभगवता कृते नाटकाभरणे
प्रथमोऽः ॥
°. नत्वादय' ख.पाठः.